Varsha Rituh Sanskrit Nibandh वर्षा ऋतुः भारतीय षडृतुओं में अत्यन्त महत्वपूर्ण ऋतु मानी जाती है। संस्कृत साहित्य में कालिदास, वाल्मीकि तथा अन्य अनेक महाकवियों ने वर्षा ऋतु का अत्यन्त मनोहारी वर्णन किया है। प्रस्तुत लेख में वर्षा ऋतुः पर संस्कृत निबंध, प्रसिद्ध श्लोक तथा हिन्दी अर्थ सहित अध्ययन सामग्री दी गई है, जो विद्यार्थियों एवं प्रतियोगी परीक्षाओं के लिए उपयोगी है।
Varsha Rituh Sanskrit Nibandh
यद्यपि ‘शास्त्रेषु ‘श्रावण भाद्रयोः वर्षा ऋतोः समयः’ इति उक्तम्, किन्तु आषाढ़े एव मेघ दर्शनेन अयं तत एव प्रवर्तते । आषाढस्य प्रथम दिवसे मेघम् आश्लिष्ट सानुम्’ इति कालिदासेन अपि मेघदूते स्वीकृतम् । ग्रीष्मप्रहारेः पीडितानां प्राणिनां कृते अयं प्राणदायकम् औषधम् इव प्रतीयते । वर्षाविन्दुभिः शीतल पवनेन च सिक्ताः सर्वे मानवाः पशवः पक्षिणः वृक्षाः च लब्धपुनर्जीवना इव हृष्यन्ति ।
प्रथमे एव जलपाते बालकाः गृहं त्यक्तवा एवं वर्षाजले स्नान्ति क्रीडन्ति कुर्दन्ति च । एवं ज्ञायते यत् ते वर्षा ऋतुं अभिनन्दन्ति । उद्यानेषु उपवनेषु वनेषु च मयूराः नृत्यन्ति, खगाः कूजन्ति, पशव: च विहरन्ति । सरोवरेषु मीनाः सुखेन तरन्ति, मण्डूकाश्व तारस्वरेण रटन्ति ते तु वर्षा ऋतोंः गुणगानं कुर्वन्ति इव प्रतीयन्ते।
मेघाच्छन्ने आकाशे क्षणे क्षणे विद्योतमाना विद्युत अतीव मनोरमा विराजते । सा तु नभः तरोः मञ्जरी इव दृश्यते । यथा महाकवि माघेन कथितं -मेघमाश्लिष्टसानुं
“द्रुत समीर चलैः क्षण लक्षितैः व्यवहिता विटपैरिवमञ्जरी ।
नव तमाल निभस्य नमस्तरोरचिररोचिररोचत वारिदेः ।।”
वर्षासु क्वचित् मेषाच्छन्नम् आकाशं घनान्धकारयुक्त क्वचित् च मेघनिर्मुक्तं च प्रकाशितं सत् अति मनोहर प्रतीयते। यथाह वाल्मीकिः-
“क्वचित प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति ।।
क्वचित् क्वचित् पर्वत सन्निरुद्ध रूपं यथा शान्तमहार्णवस्य ।।
विद्युत्पताकाः सबलाकमालः शैलेन्द्र कूटा कृति सन्निकाशाः ॥
गर्जन्ति मेघः समुदीणं नाद्रा यताः गजेन्द्रा इव संयुगस्था ।।”
कृष्णाकाशे उड्डीयमाना बकपंक्तिः नयनयोः आकर्षिका भवति । आकाशे इन्द्रधनुषो दृश्यं कस्य चित्त न हरति । उपवनानां क्षेत्राणां शोभां तु अपूर्वा दृश्यते । सर्वत्र हरितत्व विराजते । एतत्प्रतीयते यत् पृथिव्या हरित् आच्छादिता इव । जलपूर्णाः जलाशयाः नद्यश्च मनोरमाः भवन्ति । क्षेत्रेषु भूमिम् कर्षन्तः कृषकाः अतितरां मोदन्ते ।
वर्षतुः अयम् अस्मभ्यम् अतीव लाभदायकः भवति । अनेनैव पशुभ्यः तृणानि मानवेभ्य: च धान्यानि उत्पाद्यन्ते। यदि वर्षतु: न स्यात् तर्हि अन्न तृणादीनाम अlभावेन प्राणिनां जीवनमपि न स्यात् । अत एव वर्षा ऋतूनां राज्ञी कथ्यते । महर्षि बाल्मीकिना अपि वर्षायाः प्रशंसायां उक्तम् एव…
“बहन्ति वर्षन्ति नदन्ति भान्ति, ध्यायन्ति नृत्यन्ति समाश्वसन्ति । नद्यो घनाः मत्तगजा, बनान्ताः प्रिया विहीनाः शिखिनः प्लवगमाः ॥”
Varsha Ritu Essay in Sanskrit
वर्षा ऋतुः – हिन्दी अनुवाद
यद्यपि शास्त्रों में वर्षा ऋतु का समय श्रावण और भाद्रपद मास बताया गया है, फिर भी आषाढ़ मास में ही बादलों के दिखाई देने के साथ इसका आरम्भ हो जाता है। महाकवि कालिदास ने भी मेघदूत में आषाढ़ के प्रथम दिन पर्वत-शिखरों से आलिंगन करते हुए मेघों का वर्णन किया है। ग्रीष्म ऋतु की तीव्र गर्मी से पीड़ित प्राणियों के लिए वर्षा ऋतु मानो जीवन प्रदान करने वाली औषधि के समान प्रतीत होती है।
वर्षा की बूँदों और शीतल पवन से सभी मनुष्य, पशु, पक्षी तथा वृक्ष नए जीवन का अनुभव करते हुए प्रसन्न हो उठते हैं। पहली वर्षा होते ही बच्चे घरों से बाहर निकलकर वर्षा के जल में स्नान करते हैं, खेलते हैं और आनन्द मनाते हैं। इससे ज्ञात होता है कि वे वर्षा ऋतु का हर्षपूर्वक स्वागत करते हैं। उद्यानों, उपवनों और वनों में मोर नृत्य करते हैं, पक्षी मधुर स्वर में चहचहाते हैं तथा पशु आनन्दपूर्वक विचरण करते हैं। सरोवरों में मछलियाँ प्रसन्नतापूर्वक तैरती हैं और मेंढक ऊँचे स्वर में टर्र-टर्र करते हैं, मानो वे वर्षा ऋतु का गुणगान कर रहे हों।
बादलों से ढके आकाश में बार-बार चमकती हुई बिजली अत्यन्त मनोहर दिखाई देती है। वह मानो आकाश रूपी वृक्ष की पुष्पमंजरी के समान प्रतीत होती है। महाकवि माघ ने भी अपने काव्य में वर्षा ऋतु की इसी मनोहर शोभा का वर्णन किया है।
वर्षा ऋतु में कहीं घने बादलों से आच्छादित अन्धकारयुक्त आकाश दिखाई देता है तो कहीं बादलों से मुक्त निर्मल एवं प्रकाशमान आकाश मन को मोह लेता है। महर्षि वाल्मीकि ने भी रामायण में इस प्राकृतिक सौन्दर्य का अत्यन्त सुंदर चित्रण किया है। पर्वतों के समान विशाल बादल, बिजली की पताकाओं और बगुलों की पंक्तियों से सुशोभित होकर ऐसे गर्जना करते हैं, जैसे युद्धभूमि में हाथियों का समूह गर्जन कर रहा हो।
काले आकाश में उड़ती हुई बगुलों की पंक्ति नेत्रों को आकर्षित करती है। आकाश में दिखाई देने वाला इन्द्रधनुष किसका मन नहीं मोह लेता? उपवनों और खेतों की शोभा अनुपम हो जाती है। चारों ओर हरियाली छा जाती है और ऐसा प्रतीत होता है मानो पृथ्वी ने हरी चादर ओढ़ ली हो। जलाशय और नदियाँ जल से भर जाती हैं। खेतों में हल चलाते हुए किसान अत्यन्त प्रसन्न दिखाई देते हैं।
वर्षा ऋतु हमारे लिए अत्यन्त लाभदायक है। इसी के कारण पशुओं के लिए चारा तथा मनुष्यों के लिए अन्न उत्पन्न होता है। यदि वर्षा न हो, तो अन्न और घास के अभाव में प्राणियों का जीवन भी संकट में पड़ जाए। इसलिए वर्षा ऋतु को सभी ऋतुओं की रानी कहा जाता है। महर्षि वाल्मीकि ने भी वर्षा ऋतु की प्रशंसा करते हुए कहा है कि वर्षा के समय नदियाँ बहती हैं, बादल बरसते हैं, गर्जना करते हैं, वन प्रफुल्लित हो उठते हैं, मोर नृत्य करते हैं और सम्पूर्ण प्रकृति नवजीवन से भर जाती है
Varsha Rituh Sanskrit Nibandh 10 Vakya
- वर्षा ऋतुः अतीव रमणीया अस्ति।
- आकाशे घनाः मेघाः गर्जन्ति।
- विद्युत् आकाशे चमकति।
- वर्षाजलेन पृथिवी हरिता भवति।
- कृषकाः वर्षायाः आगमनं प्रतीक्षन्ते।
- नद्यः सरांसि च जलेन पूर्णानि भवन्ति।
- मयूराः वर्षायां नृत्यन्ति।
- वर्षा कृषेः कृते अतीव आवश्यकाऽस्ति।
- अत्यधिकवृष्ट्या बाढः भवितुम् अर्हति।
- अस्माभिः वर्षाजलस्य संरक्षणं कर्तव्यम्
वर्षा ऋतुः वर्षा ऋतु पर लघु संस्कृत निबंध/अनुच्छेद
भारते षडृतवः भवन्ति—वसन्तः, ग्रीष्मः, वर्षा, शरत्, हेमन्तः तथा शिशिरः। तासु वर्षा ऋतुः अतीव रमणीया जीवनदायिनी च अस्ति। सा सामान्यतः आषाढमासात् आरभ्य भाद्रपदमासपर्यन्तं भवति।
वर्षा ऋतौ आकाशे मेघाः घनघोरं गर्जन्ति। विद्युत् चमकति, वर्षाधारा पतति, सर्वत्र हरितिमा दृश्यते। नद्यः, सरांसि, कूपाः च जलेन परिपूर्णानि भवन्ति। वृक्षाः, लताः, वनस्पतयः च नवजीवनं प्राप्नुवन्ति।
वर्षा कृषकाणां कृते परमोपकारिणी अस्ति। वर्षाजलेन कृषिक्षेत्राणि सिंच्यन्ते। धान्यस्य उत्पादनं वर्धते। जलाशयाः पूर्णाः भवन्ति। सर्वे प्राणिनः जलं प्राप्नुवन्ति। अतः वर्षा ऋतुः जीवनस्य आधारः इति कथ्यते।
अत्यधिकवृष्ट्या कदाचित् बाढः भवति। मार्गाः जलमग्नाः भवन्ति। जनजीवनम् अस्तव्यस्तं भवति। मच्छराणां वृद्धिः भवति, अनेकाः रोगाः अपि प्रसारं यान्ति। अतः स्वच्छतायाः पालनम् आवश्यकम्।
वर्षा ऋतुः प्रकृतेः अमूल्यः उपहारः अस्ति। अस्माभिः जलस्य संरक्षणं कर्तव्यम् तथा वर्षाजलस्य सदुपयोगः करणीयः। यदा वर्षा सम्यक् भवति तदा कृषिः, पर्यावरणं, जनजीवनं च समृद्धं भवति। अतः वर्षा ऋतुः सर्वेषां प्रियतमासु ऋतुषु अन्यतमा अस्ति।
Vidya Par Sanskrit Nibandh विद्या पर संस्कृत निबन्ध
Sanskrit Bhashayah Mahtvam Nibandh संस्कृत भाषायाः महत्वं पर निबन्ध