सत्संगतिः कथय कि न करोति पुंसाम Satsangatih Par Sanskrit Nibandha
Satsangatih Par Sanskrit Nibandha तथा 10 वाक्य
भूमिका (प्रस्तावना)
मनुष्यस्य जीवने संगतेः अत्यन्तं महत्त्वम् अस्ति। यथा जलस्य संसर्गेण वस्तूनि शुद्धानि भवन्ति, तथैव सज्जनानां संगत्या मनुष्यस्य विचाराः, आचारः, व्यवहारः च शुद्धाः भवन्ति। सत्संगतिः मनुष्यं सदाचारिणं, विनीतं, विद्वांसं, धर्मनिष्ठं च करोति। अतः प्राचीनैः ऋषिभिः, कविभिः तथा विद्वद्भिः सत्संगतेः महिमा बहुधा वर्णिता अस्ति। “सत्संगतिः कथय किं न करोति पुंसाम्” इति प्रसिद्धोक्तिरपि सत्संगतेः अपरिमितं महत्त्वं प्रकाशयति।
परोपकारैकधियः स्वसुखाय गत स्पृहाः । जगद्धिताय जायन्ते महात्मानो दृढ़व्रताः ।।
एवं विधानां सतां संगतिः सत्संगतिः कथ्यते। ये पुरुषाः स्वहानिलाभयोः चिन्तां न कृत्वा परेषां हितं कुर्वन्ति, ते सज्जनाः कथ्यन्ते, एवं च तेषां पुरुषाणां सगतिः सत्संगतिः मन्यते । मनुष्यः यादृशानां पुरुषाणां संगतौ वसति, स तादृशः एव भवति । यदि स श्रेष्ठपुरुषैः सह वसति, सोऽपि श्रेष्ठः भवति । ऋषीणां सत्संगत्या व्याधोऽपि महर्षिवाल्मीकिः अवभत् । यदि सः दुष्टपुरुषैः सहवसति, सोऽपि दुष्टः भवति । अतएव उच्यते-
“संत्सगंजाः दोषगुणाः भवन्ति ।”
यदि जनः श्रेष्ठः भवितुमिच्छति, तदा स सत्संगतिः कुर्यात् । दुष्टानां संगतिः सदा अनर्थकारिणी भवति । रावणः रामस्य पत्नीम् अहरत्, किन्तु तस्य संगत्या समुद्रः बन्धनम् प्राप्नोत् । तदुक्तम् –
दुष्टस्य संगति : अनर्थ परम्परायाः हेतोः सतामपि भवति कि कथनीयमत्र । लंकेश्वरोऽहरत् दशरथेः कलत्रम् प्राप्नोत् बन्धनमहो किल सिन्धु राजः ।।
एतत् ज्ञात्वैव केनचित् कविना सज्जनैः एवमुपदिष्टम् –
सद्भिरेव सहासीत् सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवादं मैत्रीञ्च नासद्भि: किञ्चदाचरेत् ।।
सत्संगतिः बुद्धेः मूर्खताम हरति । सत्संगतिः वाचि सत्यम् सिञ्चिति । सत्संगतिः मानोन्नतिः दिशति । सत्संगतिः पापम् अपाकरोति । सत्संगतिः चेतः प्रसादयति । सत्संगत्तिः दिक्षु कीतिम् तनोति । केनापि कविना सत्यमुक्तम् –
जाड्य घियो हरति सिञ्चति वाचि सत्यं
मनोन्नतिं दिशति पापम्पाकिरोतिः ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिः
सत्संगतिः कथय किं किं न करोति ‘पुंसाम् ॥
अतः प्रत्येकेन मनुष्येण सदैव सज्जनानां संगतिः कर्तव्या। सत्संगतिः एव मनुष्यस्य जीवनं सफलं चरित्रं पवित्रं तथा समाजं समुन्नतम् करोति।
सत्संगति अथवा “सत्संगतिः कथय किं न करोति पुंसाम्” – हिन्दी
मनुष्य के जीवन में सत्संगति का अत्यन्त महत्त्व है। जो महापुरुष अपने सुख की इच्छा छोड़कर दूसरों के कल्याण के लिए कार्य करते हैं, उनकी संगति को सत्संगति कहते हैं। मनुष्य जैसी संगति करता है, वैसा ही बन जाता है। यदि वह श्रेष्ठ पुरुषों की संगति करता है, तो वह भी श्रेष्ठ बन जाता है। महर्षियों की संगति से एक साधारण व्याध भी महर्षि वाल्मीकि बन गया।
इसके विपरीत दुष्टों की संगति मनुष्य को पतन की ओर ले जाती है। इसलिए प्रत्येक व्यक्ति को सदैव सज्जनों का साथ करना चाहिए। सत्संगति बुद्धि की मूर्खता को दूर करती है, वाणी में सत्य का संचार करती है, सम्मान बढ़ाती है, पापों को नष्ट करती है, मन को प्रसन्न करती है तथा चारों दिशाओं में यश का विस्तार करती है। इसी कारण कवि ने सत्य ही कहा है— “सत्संगति मनुष्यों के लिए ऐसा कौन-सा कार्य है जो वह नहीं कर सकती?” अतः प्रत्येक मनुष्य को जीवन में सदैव सत्संगति का आश्रय लेना चाहिए।
Satsangatih Par Sanskrit Nibandha/ 10 वाक्य
सत्संगतिः – १० वाक्यानि
- सत्संगतिः मनुष्यस्य जीवने महत्त्वपूर्णा भवति।
- सज्जनानां संगतिः एव सत्संगतिः कथ्यते।
- सत्संगतिः मनुष्यस्य चरित्रं निर्मलं करोति।
- सत्संगत्या ज्ञानं, विनयः, सदाचारश्च वर्धन्ते।
- दुष्टसंगतिः सदा अनर्थकारिणी भवति।
- महर्षिर्वाल्मीकिः सत्संगत्या महान् ऋषिः अभवत्।
- सत्संगतिः पापमार्गात् जनान् निवर्तयति।
- सत्संगतिः मनसः प्रसादं तथा शान्तिं जनयति।
- अतः सर्वैः सदैव सज्जनानां संगतिः कर्तव्या।
- सत्संगतिः कथय किं न करोति पुंसाम्।