Vidya Par Sanskrit Nibandh विद्या पर संस्कृत निबन्ध

Vidya Par Sanskrit Nibandh विद्या, विद्याधनं सर्वधनप्रधानम्, विद्ययाऽमृतमश्नुते Vidyadhanam Sarvadhana Pradhanam Sanskrit Nibandh।अस्मिन् लेखे अस्य विषयस्य सरलः संस्कृतनिबन्धः, दश वाक्यानि तथा महत्त्वपूर्णाः श्लोकाः प्रदत्ताः सन्ति।

Nibandh…विद्या पर संस्कृत निबन्ध

“विद्या मनुष्यस्य जीवनस्य अमूल्यं धनम् अस्ति। धनं, सम्पत्तिः, वैभवं च नश्वरम्, किन्तु विद्याधनं कदापि न नश्यति। विद्यया ज्ञानं, विनयः, यशः, सम्मानः तथा सुखं प्राप्यते। अतः एव प्राचीनैः विद्वद्भिः ‘विद्याधनं सर्वधनप्रधानम्’ इति उक्तम्। “

विद्या कल्पलतेव सर्वान् मनोरथान् पूरयति। सा मनुष्यस्य अज्ञानान्धकारं नाशयति, बुद्धिं विकासयति, जीवनं च सफलं करोति। अत एव प्रसिद्धम्—

किं किं न साधयति कल्पलतेव विद्या। विद्या विहीनः पशुः ।
विद्या-प्रशंसायाम् सत्यमेकेक्तम्-

“नक्षत्र भूषणं चन्द्रो नारीणां भूषणं पतिः ।
पृथिवी-भूषणं राजा विद्या सर्वस्य भूषणम् ।।।

विद्यते सदसद्ज्ञानम् अनया सा विद्या कथ्यते । विद्या विनयं ददाति । विनियात् पात्रतां प्राप्तेषु पात्रत्वात् धनं प्राप्यते तत्पश्चातसुखं । तदुक्तम्-

विद्या ददाति विनय विनयाद् याति पात्रताम् ।
पात्रत्वाद्धनमानोति, धनाद् धर्मःततः सुखम् ।।।

अन्यधनं व्यये कृते नश्यति, किन्तु विद्याधन व्यये कृते, वर्धते । अन्यं धनं चोरः चोरयति, किन्तु विधाधनं चौरः न चोरयति । अन्यं धनं राजा हरति किन्तु विद्याधनं राजाऽपि न हरति । अन्यं धनं भ्राता विभजते, किन्तु विद्याधनं भ्राता न विभजते । अतः विद्याधनं सर्वधनेषु श्रेष्ठं कथ्यते । तथैवोक्तम्-

न चौर हायं न च राजहार्य `
न भ्रातृभाज्यं न च भारकारिः ।
व्यये कृते वर्धत एवं नित्य,
विद्याधनं सर्वधनं प्रधानम्

विद्याप्रभावेणैव ऋषयः मनुष्यः विद्वांसः कवयश्च अमराः जाताः । अतएव सत्यमुच्यते..’विद्यायाऽमृतमश्नुते ।’

विद्यया शोभा भवति । विद्ययैव मनुष्यः ज्ञानार्जनम् करोति । विद्याबुद्धेः मूर्खतां हरति । विद्या दिशामु कीर्तिम् प्रसारयति । विद्या विदेशगमने स्वबन्धुजनः भवति । विद्याविहीनः जनः पशुः भवति । विद्यासर्वस्य भूषणम् अस्ति । विद्यागुरुणांगुरुः कथ्यते।

विद्या नाम नरस्य रूपमधिकं
प्रछत्र गुप्तं धनं।
विद्या भोगकरी यशः सुखकरी विद्या
गुरुणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या
परा दैवता
विद्या राजसु पूज्यते न हि धनं-विद्या विहीनः पशु ॥

विद्या नराय धनं ददाति, यशः ददाति, सुखं ददाति, सम्मानं च ददाति । अतएव विद्या प्रशंसायाम् केनापि कविना सत्यमुक्तम्-

मातेव रक्षति पितेव हिते नियुङक्ते
कान्तेव चापिरमयत्यपनीय खेदम् ।
लक्ष्मीतनोति वितनोतिच दिक्षु कीतिम्
कि कि न साधयति कल्पलतेव विद्या ।।

विद्या पर एक और लघु निबन्ध

मानवानां जीवने विद्यायाः अति महत्वम् वर्तते। विद्यायाः अर्थम् ज्ञानम् शिक्षा वा भवति। इयं एकम् अनमोल संपत्तिः अस्ति या अस्माकं ज्ञानम् , अवबोधं , संवेदनशीलतां प्रति प्रेरयति। विद्या सदैव एकम् विशिष्टं व्यक्तित्वं निर्मापयति। विद्यया मानवः उचित-अनुचित अवबोधितुं समर्थो भवति। यः जनः विद्याहीनः भवति, सः बहुधा पशुतुल्यः व्यवहरति।

जीवने सफलतां प्राप्तुम् विद्या सर्वोत्तमम् साधनं अस्ति। अनया वयम् आत्मनिर्भरम् भवितुम् शक्नुमः। विद्या अस्माकम् शोचयितुं, विचार कर्तुं अध्ययनं कर्तुं समस्यानां समाधानम् कर्तुं, क्षमतां ददाति। अनया वयम् नूतनानां विचाराणां अवगच्छामः । नूतन विज्ञान प्रौद्योगिकी साहित्यिक कृतिनां च अन्वेषणं कर्तुं शक्नुमः। विद्या आत्मविश्वासं वर्धयति यः सफलतायाः मार्गःभवति। अतः जीवने अन्य निरर्थकम् मार्गं परित्यज्य विद्याधिकारं करणीयं।

Vidya Par Sanskrit Nibandh

2…विद्याधनं सर्वधनप्रधानम्

प्रस्तावना

विद्याधनं सर्वधनप्रधानम्। एषः प्रसिद्धः सुभाषितवाक्यः अस्ति। विद्या मनुष्यस्य अमूल्यं धनम् अस्ति। सा केवलं ज्ञानं न ददाति, अपितु सदाचारं, विनयं, विवेकं च अपि शिक्षयति। अतः विद्या सर्वेषां धनानां मध्ये श्रेष्ठा मन्यते।

विद्यायाः महत्त्वम्

विद्यया मनुष्यः अज्ञानान्धकारात् मुक्तिं प्राप्नोति। विद्वान् सर्वत्र सम्मानं लभते। विद्यावान् जनः स्वजीवनं सफलं करोति तथा समाजस्य राष्ट्रस्य च उन्नतौ योगदानं ददाति। धनं कालान्तरे नश्यति, किन्तु विद्या कदापि न नश्यति। अतः एव उच्यते— “विद्याधनं सर्वधनप्रधानम्।”

विद्यायाः लाभाः

विद्या मनुष्यस्य आत्मविश्वासं वर्धयति। सा सत्यम्, शीलम्, अनुशासनं, सेवाभावं च जनयति। विद्यया मनुष्यः स्वकर्तव्यं सम्यक् ज्ञातुं शक्नोति तथा जीवने सफलतां प्राप्नोति। विद्या राष्ट्रस्य प्रगतौ अपि महत्त्वपूर्णं योगदानं ददाति।

उपसंहार

अतः सर्वैः विद्यार्थिभिः परिश्रमेण श्रद्धया च विद्याध्ययनं करणीयम्। विद्या एव जीवनस्य वास्तविकं धनम् अस्ति। सा मनुष्यस्य जीवनं प्रकाशयति, समाजस्य कल्याणं करोति, राष्ट्रस्य च उन्नतिं साधयति। अतः सर्वदा स्मर्तव्यम्— “विद्याधनं सर्वधनप्रधानम्।”

Vidya Par Sanskrit Nibandh

3…विद्याधनं सर्वधनप्रधानम्

विद्या मनुष्यस्य जीवनस्य परमं धनम् अस्ति। धनं, वैभवं, सम्पत्तिः च नश्वराणि भवन्ति, किन्तु विद्या सर्वदा मनुष्यस्य सहचरी भवति। विद्यया मनुष्यः ज्ञानं, विनयं, विवेकं च प्राप्नोति। अतः विद्या सर्वधनेषु श्रेष्ठा इति कथ्यते।

विद्या अज्ञानान्धकारं नाशयति तथा जीवनमार्गं प्रकाशयति। विद्वान् सर्वत्र सम्मानं लभते। एवमेव विद्या मनुष्यं सदाचारिणं, कर्तव्यपरायणं च करोति। अतः प्रत्येकेन विद्यार्थिना श्रद्धया परिश्रमेण च विद्याध्ययनं कर्तव्यम्।

उपसंहार

अन्ते वयं वदामः यत्— “विद्याधनं सर्वधनप्रधानम्।” धनं नश्यति, किन्तु विद्या कदापि न नश्यति। सा जीवनपर्यन्तं मनुष्यस्य मार्गदर्शिका भवति। अतः सर्वैः विद्यायाः अर्जने निरन्तरं प्रयत्नः करणीयः।

FAQ

Q1. विद्याधनं सर्वधनप्रधानम् इति किमर्थम् कथ्यते ?
उत्तर: यतः विद्याधनं न कदापि नश्यति तथा सर्वेषु धनेषु श्रेष्ठम् अस्ति।

Q2. विद्यया किं लभ्यते?
उत्तर: विद्यया ज्ञानं, विनयः, यशः, सम्मानः तथा सुखं लभ्यते।

Q3. विद्याधनस्य विशेषता का अस्ति?
उत्तर: एतत् न चोरैः हर्यते, न राज्ञा अपह्रियते, व्यये कृते च वर्धते।

Sanskrit Bhashayah Mahtvam Nibandh संस्कृत भाषाया: महत्वम्

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top