रक्षाबन्धनम् भारतस्य प्रमुखेषु उत्सवेषु अन्यतमः अस्ति। यदि भवान्/भवती “रक्षाबन्धनम् संस्कृत निबन्धः”, “Raksha Bandhanam Sanskrit Nibandh” अथवा “रक्षाबन्धनम् पर 10 वाक्यानि” इति विषयम् अन्विष्यति, तर्हि अत्र सरलः, शुद्धः, परीक्षोपयोगी च निबन्धः हिन्दी-अनुवादेन सह प्रदत्तः अस्ति।
प्रस्तावना –
भारते विविधाः उत्सवाः सन्ति। तेषु रक्षाबन्धनम् अत्यन्तं पवित्रः लोकप्रियश्च उत्सवः अस्ति। अयं उत्सवः भ्रातृभगिन्योः प्रेम्णः, स्नेहस्य, विश्वासस्य च प्रतीकः मन्यते। श्रावणमासस्य पूर्णिमायाम् अयं उत्सवः देशस्य विभिन्नेषु भागेषु हर्षोल्लासेन आचर्यते। भारतीयसंस्कृतेः अयं उत्सवः परस्पररक्षणस्य, कर्तव्यपालनस्य च सन्देशं ददाति।
समयः-
अयम् उत्सवः श्रावण मासस्य पूर्णिमायां भवति । अयं समयः अति मनोरमा भवति । मेघाच्छन्ने आकाशे विद्योतमाना विद्युत् सर्वेषां मानसिक व्यथाम् हरति । शीतलः वायुःवाति । सर्वत्र हरीतिमा दृश्यते । वृक्षेषु कूजन्तः पक्षिणः श्रोत्रयोः मधुरम् निनादं कुर्वन्ति । एवंविधे मनोरमे समये समागतः अयम् उत्सवः सर्वान् मोदयति ।
इतिहासः –
अस्य इतिहासः अतिप्राचीनः अस्ति । पुराणानुसारं सर्वप्रथमम् इन्द्र-पत्न्या स्वपतेः इन्द्रस्य दानवेभ्यः रक्षणार्थम् तस्य हस्ते रक्षासूत्रम् बद्धम् । तदा एव अयम् उत्सवः प्रवर्तितः । ततः अनेनैव रक्षा सूत्रणैव दानवेन्द्रः बलिः बद्धः’ इति रक्षासूत्रबन्धनसमये पठ्य-मानेन अनेन श्लोकेन प्रतीयते –
“येन राजा बलिर्बद्धो दानवेन्द्रो महाबलः ।
तेन त्वाम् प्रतिबध्नामि रक्षे,मा चल मा चल ।।”
पुरा अस्मिन् एव दिने ऋषयः ब्राह्मणाश्च राज्ञ: यजमानानां च हस्तेषु रक्षासूत्र अबध्नन् । ते राजानः यजमानश्च तेषां वार्षिकव्ययार्थम् प्रचुरं धन तेभ्यः यच्छन्ति स्म ।
Raksha Bandhanam Sanskrit Nibandh
रक्षाबन्धनं..उत्सवस्य विधिः
अयम् उत्सवः प्रधान्येन ब्राह्मणानाम् अस्ति, किन्तु अधुना सर्वेऽपि इमम् अभिनन्दन्ति । अस्मिन दिने भगिन्यः अतीव प्रसन्नाः दृश्यन्ते । प्रायेण भगिन्या पतिगृहात् स्वभ्रातृगृहम् आगत्य तेषां हस्तेषु रक्षाबन्धनम् कुर्वन्ति, धनवस्त्रादिकञ्च लभन्ते। ब्राह्मणाश्चं यजमानहस्तेषु रक्षाबन्धनं विधाय दक्षिणां प्राप्नुवन्ति ।
अस्मिन् उत्सवे प्रति गृहंमिष्ठानानि पच्यन्ते । तानि भुक्त्वा आबाल वृद्धाः सर्वेजनाः प्रसन्नाः भवन्ति । बालकाः स्त्रियश्च दोलायां दोलायन्ते । स्त्रियः मल्हाराख्यम् रागं गीत्वा प्रसन्नाः भवन्ति ।
धर्मप्राणाः जनाः तीर्थस्थानानि गत्वा उपाकर्म कुर्वन्ति । ते एवं मन्यन्ते यद् अनेनकर्मणा सम्पूर्णवर्ष कृतानां पापानां क्षयो धवति ।
वस्तुतस्तु पुरा अस्मिन् दिने राजानः धनिकाश्च तपोवने वसद्भ्यः ब्राह्मणेभ्यः ऋषिभ्यश्च तेषाम् विद्यालयानां उपवनानां च व्ययार्थ पुष्कलं घनं ददति स्म । एवम् अयं दानप्रधानः उत्सवो भारतीय संस्कृते: उज्जवलतायाः सूचकोऽस्ति ।
उपसंहार –
एवम् अयम् प्रमोदपूर्ण उत्सवः अभिनन्द्यते । रक्षाबन्धनं केवलम् रक्षासूत्रस्य बन्धन मात्रं नास्ति। अपितु प्रेम विश्वास कर्तव्यबोधस्य च महान् उत्सवः अस्ति। अतः सर्वैः एषः उत्सवः उत्साहेन आचरितव्यः।
Raksha Bandhanam Sanskrit Nibandh
हिन्दी अनुवाद…
प्रस्तावना….
रक्षाबंधन का पर्व भारत के प्रमुख पर्वों में से एक है। यह भाई-बहन के प्रेम, विश्वास और परस्पर रक्षा का प्रतीक माना जाता है। यह त्योहार श्रावण मास की पूर्णिमा के दिन पूरे भारत में हर्ष और उल्लास के साथ मनाया जाता है।
मनाये जाने का समय….
रक्षाबन्धन का पर्व श्रावणमास मास की पूर्णिमा को मनाया जाता है। इस समय वर्षा ऋतु का सुन्दर वातावरण होता है। आकाश में बादल छाये रहते हैं। आकाश में छाये हुए बादलों . के बीच चमकती हुई विजली सभी के मन की व्यथा को दूर कर देती है। ठंडी हवा चलती है। चारो तरफ हरियाली छाई रहती है। वृक्षों पर पक्षियों का कलरव कानों में मधुर रस घोल देते हैं।
इतिहास….
इस पर्व का इतिहास अत्यन्त प्राचीन है। सर्व प्रथम इन्द्र की पत्नी द्वारा अपनी पति इन्द्र की राक्षसों से रक्षा के लिये उनके हाथों में रक्षा सूत्र बांधा गया। तब से ही यह उत्सव मनाया जाने लगा। राज बलि से संबन्धित प्रसिद्ध श्लोक भी इसी संदर्भ में बोला जाता है…. राजपूतों के काल में भी राजाओं ने अपनी रक्षा के लिये किसी शक्तिशाली राजा को अपना भाई मान कर उनके हाथ में रक्षा बन्धन किया था।
प्राचीन काल में इसी दिन ऋषियों और ब्राह्मणों नें राजा और यजमानों के हाथों पर रक्षा सूत्र बाँधा था। राजा और यजमान उनकॊ पूरे वर्ष के व्यय कॆ लिये बहुत सारा धन देते थे।
उत्सव मनाने की विधि….
इस दिन बहनें अपने भाइयों की कलाई पर राखी बाँधती हैं और उनके सुख, समृद्धि तथा दीर्घायु की कामना करती हैं। भाई अपनी बहनों की रक्षा का वचन देते हैं तथा उन्हें उपहार देते हैं। घरों में विभिन्न प्रकार के मिठाई और स्वादिष्ट भोजन बनाए जाते हैं। बच्चे से ले कर बूढ़े तक सभी प्रसन्न रहते हैं।बच्चे और बड़े सभी आनंदपूर्वक इस पर्व को मनाते हैं। स्त्रियां और लड़कियां झूला झूलती हैं।
धार्मिक लोग विभिन्न तीर्थ स्थानों पर जा कर सुकर्म करते हैं। उनका मानना है कि वर्ष भर जाने अनजाने में किये गये पापों का नाश हो जाता है।
उपसंहार….
इस प्रकार यह पर्व आनन्द पूर्वक मनाया जाता है।रक्षाबंधन केवल एक धार्मिक पर्व नहीं है, बल्कि प्रेम, विश्वास, स्नेह और कर्तव्य का भी महान उत्सव है। यह भारतीय संस्कृति की पवित्र परंपराओं का प्रतीक है और भाई-बहन के अटूट संबंध को सुदृढ़ बनाता है।
Raksha Bandhanam Sanskrit Nibandh
लघु अनुच्छेद….
भारत देशे अनेके उत्सवाः मान्यन्ते। तेषु उत्सवेषु रक्षाबन्धनं एकः प्रियः पवित्रः पर्वः अस्ति। अयम् उत्सवः भ्रातृ भगिन्योः प्रेम्णः, स्नेहस्य विश्वासस्य च प्रतीकः अस्ति। श्रावण मासस्य पूर्णिमायां अयम् उत्सवः मान्यते। अयम् उत्सवः देशस्य अनेकेषु भागेषु हर्षोल्लासेन आचर्यते। अस्मिन् दिवसे भगिन्यः स्व भ्रातरं हस्ते रक्षा सूत्रं बध्नन्ति, तथा तेषां सुख-समृद्धि-दीर्घायुषः कामनां कुर्वन्ति। भ्रातरः स्वभगिनीनां रक्षणस्य वचनं ददति तथा च ताभ्यः उपहारान् प्रयच्छन्ति। गृहेषु नानाविधानि मिष्टान्नानि स्वादूनि च भोजनानि निर्मीयन्ते। बालकेभ्यः आरभ्य वृद्धेभ्यः पर्यन्तं सर्वे जनाः हर्षोल्लासेन उत्साहेन च एतत् पर्व आचरन्ति। अनेकेषु स्थानेषु स्त्रियः कन्याश्च दोलायां दोलनं कृत्वा अस्य उत्सवस्य आनन्दम् अनुभवन्ति।