Sanskrit Class8 lesson9 Solution कोऽरुक्?कोऽरुक्?कोऽरुक्?
Sanskrit Class8 lesson9 Solution पाठ में पूछे गये सारे प्रश्नों का समाधान तथा अतिरिक्त पठित गद्यांश पर आधारित प्रश्न उत्तर…
१. अधोलिखितान् प्रश्नान् एकपदेन उत्तरत-
(क) शुकरूपं कः धृतवान् ?
उत्तरम्… धन्वन्तरिः।
(ख) धन्वन्तरिः (शुकः) कुत्र उपविश्य ध्वनिम् अकरोत् ?
उत्तर… पुष्पतरौ।
(ग) अन्ते शुकः कस्य आश्रमस्य समीपं गतवान् ?
उत्तरम्…. वाग्भटस्य।
(घ) ऋतवः कति सन्ति ?
उत्तरम्… षट्।
(ङ) वाग्भटः शुकस्य रहस्यं केभ्यः उक्तवान् ?
उत्तरम्… शिष्येभ्यः।
२. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयत –
(चरकस्य, कुटीरसमीपं, भारतवर्षे, आयुर्वेदज्ञानेन, अतिमात्रं)
- (क)…….जनाः कथं निरामयाः भवन्ति?
- (ख) अन्ते सः वैद्यस्य वाग्भटस्य………..गतवान्।
- (ग) तव उत्कृष्टेन…… अहम् अतीव सन्तुष्टः अस्मि ।
- (घ) महर्षेः …………नाम भवन्तः श्रुतवन्तः स्युः।
- (ङ) लघुद्रव्याणि…….. सेवनेन हानिकराणि जायन्ते।
उत्तराणि-
- (क) भारतवर्षे जनाः कथं निरामयाः भवन्ति ?
- (ख) अन्ते सः वैद्यस्य वाग्भटस्य कुटीरसमीपम् गतवान् ।
- (ग) तव उत्कृष्टेन आयुर्वेदज्ञानेन अहम् अतीव सन्तुष्टः अस्मि ।
- (घ) महर्षेः चरकस्य नाम भवन्तः श्रुतवन्तः स्युः ।
- (ङ) लघुद्रव्याणि अतिमात्रम् सेवनेन हानिकराणि जायन्ते।
३. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत –
(क) मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः किम् अकरोत् ?
उत्तर…मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः सर्वासु दिक्षु अपश्यत्।
(ख) वाग्भटः झटिति किम् अकरोत् ?
उत्तर…वाग्भटः झटिति तस्मै विहगाय फलं समर्पितवान्।
(ग) छात्राः पुनः जिज्ञासया आचार्यं किम् अपृच्छन् ?
उत्तर…छात्राः पुनः जिज्ञासया आचार्यं अपृच्छन्…. आचार्य! ‘हितभुक्, मितभुक्, रितभुक् ‘इति एतेषां कः आशयः? “
(घ) भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण किं प्रदत्तवान् ?
उत्तर…भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण स्वास्थ्यरक्षणाय सुत्ररुपेण संदेशं प्रदत्तवान्।
(ङ) ऋषयः नित्यं कां प्रार्थनां कुर्वन्ति ?
उत्तर..सर्वे भवन्तु सुखिनः,सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् “इति ऋषयः नित्यं प्रार्थनां कुर्वन्ति।
4…पाठात् यथोचितानि विशेषणपदानि विशेष्यपदानि वा चित्वा रिक्तस्थानानि पूरयत…
| विशेषणं | विशेष्यम् | विशेषणम् | विशेष्यम् |
| विभिन्नानां | व्याधीनाम् | ………….. | वैद्याः |
| मनोहरम् | ……………. | …………. | वृक्षे |
| ………….. | प्राङ्गणे | ………….. | वाणीम् |
| ………….. | वाग्भटः | लौकिकः | …………… |
| मधुराणि | …………… | समुचितम् | ……………. |
| …………. | वैद्यस्य | …………. | शिष्याः |
| महर्षेः | ……… | सात्विकम् | …………. |
उत्तर…
| विशेषणं | विशेष्यम् | विशेषणं | विशेष्यम् |
| विभिन्नानां | व्याधीनाम् | प्रख्याताः | वैद्याः |
| मनोहरम् | शुकरूपम् | पार्श्वस्थे | वृक्षे |
| विशाले | प्राङ्गणे | मधुराम् | वाणीम् |
| वैद्यः | वाग्भटः | लौकिकः | खगः |
| मधुराणि | फलानि | समुचितम् | उत्तरम् |
| उत्तमस्य | वैद्यस्य | विस्मिताः | शिष्याः |
| महर्षेः | चरकस्य | सात्विकम् | भोजनम् |
६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत –
- (क) अस्माभिः नित्यं व्यायामः, स्नानं, दन्तधावनं, बुभुक्षायाञ्च भोजनं कर्तव्यम्।
- …………………………………….
- (ख) अस्माभिः हितकरः आहारः सेवनीयः येन विकाराणां शमनं स्वास्थ्यस्य च रक्षणं भवेत् ।
- ………………………………..
- (ग) ऋतोः अनुसारं भोजनेन बलस्य वर्णस्य च अभिवृद्धिः भवति ।
- ………………………..
उत्तर…
- (क) व्यायामः प्रातरुत्थायं, नित्यं दन्तविशोधनम्। स्वच्छजलेन सुस्नानं बुभुक्षायाञ्च भोजनम्।
- (ख) तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनामुवर्त्तते। अजातानां विकाराणामनुत्पत्तिकरं च यत्।।
- (ग) तस्याशिताद्यादाहारात् बलं वर्णश्च वर्धते । तस्यर्तुसात्म्यं विदितम् चेष्टाहारव्यपाश्रयम्।।
अतिरिक्त अभ्यास…
(ख) सार्थकं मानुषध्वनि कुर्वन्त शुक दृष्ट्वा विस्मितः वाग्भटः चिन्तितवान्-“नायं लौकिकः खगः। एषः निश्चयेन कश्चन देवविशेषः अस्ति”। सः झटिति तस्मै विहगाय मधुराणि फलानि समर्पितवान् परन्तु सः खगः फलानि न गृहीत्वा पुनरपि तथैव ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति प्रश्नस्वरेण शब्दमकरोत्। अथ वैद्यः वाग्भटः अचिन्तयत् यत् यावत् खगः स्वप्रश्नानाम् उत्तराणि न प्राप्नोति तावत् अयं भोजनं न वाञ्छति इति। ततः सः अचिरादेव सूत्ररूपाणि त्रीणि उत्तराणि प्राददात्- ‘हितभुक्’ ‘मितभुक्’ ‘ऋतुभुक्’ इति । समुचितम् उत्तरं श्रुत्वा अत्यन्तं प्रीतः सः शुकः वाग्भटेन अर्पितानि फलानि खादितवान्।
प्रश्नाः –
I. एकपदेन उत्तरत-
- (क) वाग्भटः किं कुर्वन्तं शुकम् अपश्यत्?
- (ख) किं दृष्ट्वा वाग्भटः विस्मितः अभवत्?
- (ग) कः झटिति विहगाय मधुराणि फलानि समर्पितवान्?
- (घ) कः फलानि न गृहीतवान्?
II. पूर्णवाक्येन उत्तरत-
- (क) शुकः किम् अवदत् ?
- (ख)सार्थकं मानुषध्वनि कुर्वन्तं शुकं दृष्ट्वा विस्मितः वाग्भटः किम् चिन्तितवान्?
- (ग)वाग्भटः सूत्र रूपेण किमवदत्?
- (घ)उचितं उत्तरम् श्रुत्वा कः प्रीतः अभवत्?
III. यथानिर्देशम् उत्तरत-
(i) ‘लौकिकः खगः’ इत्यत्र विशेषणपदं किम्?
(क) अयम् (ख) खगः(ग) न (घ) लौकिकः
(ii) ‘समर्पितवान्’ इति पदस्य कर्तृपदं किम?
- (क) खगाय
- (ख) फलानि
- (ग) सः
- (घ) मधुराणि
(iii) ‘आकर्ण्य’ इत्यर्थे किं पदं प्रयुक्तम्?
- (क) दृष्ट्वा
- (ख) श्रुत्वा
- (ग) आगत्य
- (घ) विस्मितः
उत्तराणि-
1.एक पदेन
(क) मधुरां वाणीम् (ख) शुकम् (ग) वाग्भटः (घ) शुकः
II.पूर्ण वाक्येन…
- (क) शुकः ‘कोऽरुक् कोऽरुक्’ इत्यवदत्।
- (ख)सार्थकं मानुषध्वनि कुर्वन्तं शुकं दृष्ट्वा विस्मितः वाग्भटः चिन्तितवान्—“नायं लौकिकः खगः।
- (ग)वाग्भटः सूत्र रूपेण ‘हितभुक्’ ‘मितभुक्’ ‘ऋतुभुक्‘…इति अवदत्
- (घ) उचितम् उत्तरं श्रुत्वा शुकः प्रीतः अवदत् ।
III.यथा निर्देशम् उत्तरत्…इसके उत्तर..
- (i) (घ) लौकिकः
- (ii) (ग) सः
- (iii) (ख) श्रुत्वा
संस्कृत कक्षा 8 Dijibharatam Yugparivartanam Question Answer