तिरुक्कुरल सूक्ति सौरभं, तमिल भाषा की प्राचीनतम और महानतम रचनाओं में एक, मानव जीवन के तीन मूल स्तंभों—धर्म, अर्थ और काम—का गूढ़ और सुस्पष्ट निरूपण करती है। यह ग्रंथ न केवल तात्त्विक विचारों से युक्त है, बल्कि व्यवहारिक जीवन के लिए भी अमूल्य मार्गदर्शन देता है। “तिरुक्कुरल: सूक्तियों की सुरभि” शीर्षक से प्रस्तुत यह संग्रह, तिरुवल्लुवर द्वारा रचित सूक्तियों की उस दिव्य गंध को समर्पित है, जो आज भी मानवता को सच्चाई, करुणा और विवेक की ओर प्रेरित करती है।
( चेन्नईनगरस्य समुद्रतटः । तत्र तिरुवल्लुवरस्य प्रतिमां दृष्ट्वा छात्राः परस्परं चर्चा कुर्वन्ति।)
(चेन्नईनगर का समुद्र तट है।तिरुवल्लुवर की प्रतिमा देख कर छात्र आपस में चर्चा करते हैं।)
शारदा..नमिते ! पश्य पश्य एतां प्रतिमाम्। मन्ये कोऽपि महाकविः ।
शारदा.. नमिता ! देखो देखो इस प्रतिमा को। मुझे लगता है यह कोई महाकवि हैं।
नमिता..कथं मन्यसे ?
नमिता.. कैसे जानती हो?
सङ्गीता=किं न पश्यसि यत् अस्य हस्ते तु पुस्तकम् इव किञ्चित् विराजते ।
संगीता.. क्या तुम नहीं देख रही हो कि इनके हाथ में कुछ पुस्तक के जैसा है।
आदित्यः…आम् आम् ! किमपि लिखति सः ।
आदित्य.. हाँ हाँ!वह कुछ लिख रहे हैं।
वैभवः..ननु अत्रैव लिखितम्। एष खलु महाकविः तिरुवल्लुवरः इति।
वैभव.. यहां पर ही लिखा है कि ये महाकवि तिरुवल्लुवर हैं।
सौम्या..अहो ! एष एव महाकविः येन तिरुक्कुरल् इति महान् पावनः ग्रन्थः विरचितः ।
सौम्या..अरे! यही वे महाकवि हैं,जिन्होंनें तिरक्कुरल नामक इस महान पवित्र ग्रन्थ को लिखा है।
हार्दिकः..आम्। मम जनकस्तु प्रतिदिनमेव अस्य पाठं करोति । तेन तु अधिकांशपद्यानि कण्ठस्थीकृतानि ।
हार्दिक… हाँ! मेरे पिताजी तो प्रतिदिन इसका पाठ करते हैं। उन्होंनें तो अधिकांश श्लोक याद कर लिया है।
अधोक्षजः …अहो स्मरामि ! अस्माकं संस्कृतपुस्तके तु अस्य एव ग्रन्थस्य कतिचित् पद्यानि संस्कृतभाषयाम् अनूद्य प्रदत्तानि ।
अधोक्षज…. अरे मुझे याद आ गया। हमारी संस्कृत पुस्तक में तो इसी ग्रन्थ के कुछ पद्य संस्कृत भाषा में अनुवाद करके दिया गया है।
सर्वे…तर्हि अवश्यमेव पठिष्यामः तं पाठं ज्ञानवृद्धिं च करिष्यामः ।
सभी… तो हम सब अवश्य ही उस पाठ को पढेंगे तथा ज्ञान में वृद्धि करेंगे।
तिरुक्कुरल सूक्ति के श्लोक..
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता ॥ 1 ॥
अन्वयः-पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति। अस्य (पुत्रस्य) पिता किं तपः तेपे इति उक्तिः तत्कृतज्ञता।
शब्दार्थ- बाल्ये = बचपन में , तेपे=तप किया, साधना की , महत् = वृहत् या बड़ा , उक्तिः= कथन , कृतज्ञता=दूसरों के द्वारा किये गये उपकार को मन से स्वीकार करना
अर्थ-पिता पुत्र को बचपन में विद्या रूपीबहुत बड़ा धन देता है। “पिता ने इसके लिए कितनी साधना की”, यह कहना ही उनके (पिता के )प्रति पुत्र की कृतज्ञता है।अर्थात अभार व्यक्त करना है।
संधि कार्य…
- तपस्तेपे=तपः +तेपे (विसर्ग संधि)
- इत्युक्तिः =इति +उक्तिः (यण संधि )
- पिताऽस्य=पिता +अस्य (दीर्घ स्वर संधि)
समास…
- विधाधनम् =विद्या इव धनं (कर्मधारय )
- तत्कृतज्ञता =तस्य कृतज्ञता (षष्ठी तत्पुरुष)
प्रकृति प्रत्याय ..
- उक्तिः =वच् +क्तिन्
- कृतज्ञता=कृतज्ञ+तल्
अवक्रता यथा चित्ते तथा वाचि भवेद् यदि ।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः ॥ 2 ॥
अन्वयः- यथा अवक्रता चित्ते तथा यदि वाचि भवेत्, महात्मानः तथ्यतः तदेव समत्वम् इति आहुः।
शब्दार्थ-अवक्रता=सरलता , चित्ते=चित्त में या मन में ,वाचि=वाणी में , महात्मानः – महात्मा लोग , समत्वम् = समानता ,तथ्यतः =वास्तव में, सच्चे रूप में , आहुः=कहते हैं।
अर्थ-सरलता जैसी मन में है, वैसी यदि वाणी में भी हो तो महात्मा लोग उसे सच्चे अर्थों में ‘समत्व’ (मन और वाणी की समानता) कहते हैं।अर्थात मन और वाणी में समानता होनी चाहिये।
संधि कार्य…
- तदेवाहुः= तत् +एव +आहुः (व्यञ्जन संधि और स्वर संधि )
समास…
- अवक्रता = न वक्रता (नञ तत्पुरुष )
प्रकृति प्रत्यय…
- अवक्रता=अवक्र +तल्
- समत्वम्=सम +त्व
- तथ्यतः=तथ्य +तसिल्
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ॥ 3 ॥
अन्वय =यः धर्मप्रदाम् वाचम् त्यक्त्वा परुषाम् (वाचम्) अभ्युदीरयेत्। (सः) विमूढधीः पक्वम् फलम् परित्यज्य अपक्वम् (फलम्) भुङ्क्ते।
शब्दार्थ–त्यक्त्वा = छोड़ कर , विमूढधीः= मूढ़ बुद्धि वाला, अज्ञानी , धर्मप्रदाम् = धर्म से युक्त ,वाचम्=वाणी को, त्यक्त्वा =छोड़कर परुषाम् =कठोर वाणी को , अभ्युदीरयेत्=बोलता है , पक्वम्= पके हुए (फल) को , परित्यज्य= छोड़कर , अपक्वम्=कच्चे (फल) को , भुङ्क्ते=खाता है।
अर्थ-जो(मनुष्य )धर्म-निष्ठ वाणी को छोड़कर कठोर वाणी बोलता है, वह मूर्ख (मानो) पके हुए फल को छोड़कर कच्चे फल को खाता है।
अर्थात जो मनुष्य धर्म से युक्त सत्य, मधुर वाणी को छोड़ कर कठोर वाणी बोलता है, उसकी वाणी में सरसता और मधुरता नहीं होती है.।
संधि..
- योऽभ्युदीरयेत्= यः +अभि (विसर्ग संधि )+उदीरयेत् ( यण संधि )
- भुङ्क्ते = भुम् +क्ते (परसवर्ण संधि )
- भुङ्क्तेऽपक्वं=भुङ्क्ते +अपक्वम् (पूर्वरुप संधि)
समास
- धर्मप्रदाम्= धर्मम् प्रदाति इति ( उपपद तत्पुरुष)
- विमूढधीः= विमूढा धीः यस्य सः ( बहुब्रीहि समास )
- अपक्वम्=न पक्वम् = (नञ् तत्पुरुष )
प्रकृति प्रत्यय..
- त्यक्त्वा =त्यज्+क्त्वा
- पक्वम् = पच् + क्त (द्वितीया विभक्ति का रूप है )
- परित्यज्य = परि उपसर्ग +त्यज् +ल्यप्
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुर्नामनी मते ॥4॥
अन्वय…अस्मिन् लोके विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः । अन्येषाम् वदने ये (चक्षुषी) ते तु चक्षुर्नामनी मते।
शब्दार्थ…विद्वांस= विद्वान लोग, लोकेऽस्मिन्= इस संसार में , चक्षुष्मन्तः = आँखों वाले , प्रकीर्तिताः= कहे गये हैं , अन्येषां= दूसरों के ,वदने = मुख पर /चेहरे पर., मते = विचार में (In the opinion)
हिन्दी अनुवाद…इस संसार में विद्वान लोग ही आँखों वाले कहे गये हैं। दूसरों के मुख पर जो आँखें हैं, वे केवल नाम की ही हैं। इसका भावार्थ यह है… कि विद्या ही मानव का वास्तविक नेत्र है, जिसके द्वारा मनुष्य हर तरह के विचार और व्यवहार करने में समर्थ होता है। इसलिये इस संसार में विद्वान, ज्ञानी और विचारशील लोग ही आँखों वाले कहे गये ह
संधि कार्य..
- विद्वांस एव =विद्वांसः +एव (विसर्ग लोप संधि )
- लोकेऽस्मिन्= लोके +अस्मिन् (पूर्व रूप संधि )
प्रकृति प्रत्यय..
- चक्षुष्मन्तः=चक्षुष् = मतुप् (बहुवचन )
- प्रकीर्तिताः= प्र +कीर् +क्त (बहुवचन )
यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः ।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः ॥5॥
अन्वयः– येन केन अपि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेकः इति ईरितः।
शब्दार्थ—येन केन अपि=जिस किसी के द्वारा ,यत्=जो , प्रोक्तम्=कहा गया है , तस्य=उसके , तत्त्वार्थनिर्णयः =वास्तविक अर्थ का निर्णय , येन=जिसके द्वारा , कर्तुम् शक्यः भवेत्=किया जा सकता है , सः-=वह , विवेकः= विवेक , ईरितः= कहा गया है।
अर्थ-जिस किसी के द्वारा जो कुछ भी कहा गया है उसके वास्तविक अर्थ का निर्णय जिसके द्वारा किया जा सकता है वह ‘विवेक’ इस नाम से कहा गया है। अर्थात. किसी के द्वारा कही गई बात का सही अर्थ जिससे हम समझते हैं उसे (मनुष्य का )विवेक कहा जाता है।
संधि…
- प्रोक्तं =प्र +उक्तम् (गुण संधि )
- केनापि =केन +अपि (दीर्घ स्वर संधि )
- ईतीरितः = इति +ईरितः (दीर्घ स्वर संधि )
समास..
- तत्वार्थनिर्णयः =तत्वार्थस्य निर्णयः (षष्ठी तत्पुरुष)
प्रकृति प्रत्यय…
- प्रोक्तं =प्र +वच् +क्त
- कर्तुं =कृ +तुमुन्
- ईरितः +ईर् +क्त
- शक्यः =शक् +यत्
वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः ।
स केनापि प्रकारेण परैर्न परिभूयते ॥ 6 ॥
अन्वयः– (यः) मन्त्री वाक्पटुः, धैर्यवान्, सभायाम् अपि अकातरः (अस्ति ) सः परैः केन अपि प्रकारेण न परिभूयते ॥
शब्दार्थ–वाक्पटुः =बोलने में कुशल, समझदारी से बोलने वाला , धैर्यवान्= धैर्य से युक्त,सभायाम् अपि=सभा में भी , अकातरः = निडर , परैः-= दूसरों के द्वारा , केन अपि प्रकारेण=किसी प्रकार से भी, न परिभूयते=पराजित नहीं होता।( हारता नहीं है )
अर्थ-जो मन्त्री बोलने में चतुर, धैर्य धारण करने वाला, सभा में निडर होकर मन्त्रणा देने वाला होता है, वह अन्यों के द्वारा किसी भी प्रकार से पराजित (तिरस्कृत) नहीं होता है।
संधि कार्य
- वाक्पटुधैर्यवान्= वाक्पटुः +धैर्यवान् (विसर्ग संधि )
- अप्यकातरः = अपि +अकातरः (यण् संधि)
- परैर्न =परैः +न (विसर्ग संधि )
- केनापि =केन +अपि (दीर्घ स्वर संधि )
समास…
- अकातरः =नकातरः (नञ् तत्पुरुष )
- वाक्पटुः =वाचि पटुः (सप्तमी तत्पुरुष)
प्रकृति प्रत्यय..
- धैर्य +मतुप्
- मन्त्र +इन्
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥7॥
अन्वयः= यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितं कर्म कदापि न कुर्यात् ।
शब्दार्थ-आत्मनः= अपना , श्रेयः= कल्याण , प्रभूतानि=बहुत , सुखानि =सुखों को , इच्छति=चाहता है , परेभ्यः – दूसरों के लिये , अहितं =बुरा , कर्म =कार्य ,कर्म न कुर्यात्=कार्य नहीं करना चाहिये ।
हिन्दी अनुवाद –जो (व्यक्ति)अपना कल्याण तथा बहुत से सुखों की कामना या इच्छा करता है उसे दूसरों के लिए कभी भी अहितकारक (बुरा) काम नहीं करना चाहिए।
संधि कार्य
- इच्छत्यात्मनः= इच्छति +आत्मानः (यण संधि)
- कुर्यादहितं=कुर्यात् +अहितं ( जश्त्व संधि )
समास..
- अहितं =न हितं (नञ् तत्पुरुष )
- आत्मनः श्रेयः =आत्मश्रेयः ( षष्ठी तत्पुरुष )
प्रकृति प्रत्यय..
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः ।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः ॥ 8 ॥
अन्वयः- आचारः प्रथमः धर्मः इति एतत् विदुषां वचः, तस्मात् प्राणेभ्यः अपि सदाचारं विशेषतः रक्षेत् ।
शब्दार्थ-आचारः = अच्छा आचरण, सदाचार, प्रथमः= सबसे पहला, विदुषाम्=विद्वानों का, वचः=कथन , तस्मात्=इस कारण से , प्राणेभ्यः अपि= प्राणों से भी, या प्राण देकर भी , सदाचारं रक्षेत्=सदाचार की रक्षा करनी चाहिए। विशेषतः = विशेष रूप से
अर्थ-सदाचार (मानव का)प्रथम (पहला) धर्म है, ऐसा विद्वानों का कथन है। इस कारण प्राणों से बढ़ कर या प्राण देकर भी सदाचार की रक्षा विशेष रूप से करनी चाहिए।
संधि कार्य
- प्रथमो धर्मः = प्रथमः धर्मः (विसर्ग संधि)
- इत्येतद्=इति +एतत् ( यण संधि )
- सदाचारं =सत् +आचारं (जश्त्व संधि )
- प्राणेभ्योऽपि =प्राणेभ्यः +अपि(विसर्ग संधि)
समास..
- सदाचारं= शोभनम् आचारं (कर्मधारय समास )
- विदुषां वचः=विद्वद् वचः (षष्ठी तत्पुरुष )
प्रकृति प्रत्यय..
- विशेषतः =विशेष +तसिल्

पाठ आधारित अभ्यास कार्य….
1…प्रश्नानाम् उत्तरम् एकपदेन लिखत-
(क) पिता पुत्राय बाल्ये किं यच्छति ?
उत्तर.. विद्याधनं।
(ख) मूढमतिः कीदृशीं वाचं परित्यजति ?
उत्तर…धर्मप्रदाम्।
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः ?
उत्तर…विद्वांसः।
(घ) नरः केन गुणेन कस्यापि कथनस्य तत्त्वार्थनिर्णयं कर्तुं शक्नोति ?
उत्तर…विवेकेन।
(ङ) प्राणेभ्योऽपि किं रक्षणीयम् ?
उत्तर…सदाचारः।
(च) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात् ?
उत्तर…अहितंकर्म।
(छ) वाचि किं भवेत् ?
उत्तर…अवक्रता।
(ज) पाठे ‘वाचि पटुः’ इति स्थाने किं पदं प्रयुक्तम् ?
उत्तर…वाक्पटुः
- अधोलिखितप्रश्नाम् उत्तराणि पूर्णवाक्येन लिखत –
- (क) पुत्रः पितरं प्रति किम् अनुभवेत् ?
- उत्तर…पुत्रः पितरम् प्रति कृतज्ञता अनुभवेत्।
- (ख) आत्मनः हितम् इच्छन् नरः किं कुर्यात् ?
- उत्तर…आत्मनः हितम् इच्छन् नरः कदापि परेभ्यः अहितं न कुर्यात्।
- (ग) मूर्खबुद्धिः जनः कीदृशीं वाणीं त्यजति ?
- उत्तर…मूर्खबुद्धिः जनः धर्मप्रदां वाचं त्यजति ।
- (घ) विदुषां वचः किम् ?
- उत्तर…आचारः’, प्रथमः, धर्मः, इति विदुषां वचः।
- (ङ) वस्तुतः लोके चक्षुष्मन्तः के कथिताः ?
- उत्तर….वस्तुतः विद्वांसः एव लोके चक्षुष्मन्तः कथिताः।
- (च) महात्मानः समत्वं किं कथयन्ति ?
- उत्तर…यथा चित्ते अवक्रता तथा यदि वाचि भवेत् तदेव महात्मानः समत्वं कथयन्ति।
- (छ) विवेकी जनः कस्य तत्त्वार्थनिर्णयं कर्तुं शक्नोति ?
- उत्तर…येन केनापि यत् प्रोक्तम्, विवेकी जनः तस्य तत्त्वार्थनिर्णयः कर्तुम् शक्नोति।
- (ज) कीदृशः जनः परैः न तिरस्क्रियते ?
- उत्तर…वाक्पटुः, धैर्यवान् सभायाम् अपि अकातरः मन्त्री परैः न तिरस्क्रियते ।
3….स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
- (क) विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते ।
- (ख) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
- (ग) जनकेन सुताय शैशवे विद्याधनं दीयते।
- (घ) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यते।
- (ङ)साधूनां चित्ते वाचि च सरलता भवति।
- (च) धैर्यवान् लोके परिभवं न प्रप्नोति ।
- (छ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात् ।
उत्तर….
- (क)..कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
- (ख) संसारे विद्वांसः कैः नेत्रवन्तः कथ्यन्ते।
- (ग) जनकेन सुताय कदा विद्याधनं दीयते।
- (घ) तत्त्वार्थस्य निर्णयः केन कर्तुं शक्यते।
- (ङ)केषाम् चित्ते वाचि च सरलता भवति।
- (च) कः लोके परिभवं न प्रप्नोति ।
- (छ) किम्/कम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात् ।
4….यथानिर्देशम् उत्तरत
(क) ‘भुङ्क्ते ‘ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
उत्तर….विमूढधीः।
(ख) ‘परुषाम्’ इति विशेषणस्य किं विशेष्यपदं पाठे प्रयुक्तम् ?
उत्तर…वाचम्।
(ग) ‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि ।’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम् ?
उत्तर… भवेत्।
(घ) ‘य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।’ इत्यस्मिन् वाक्ये ‘कल्याणम्’ इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर.. श्रेयः।
(ङ) ‘अल्पानि’ इति पदस्य किं विलोमपदं पाठे प्रयुक्तम् ?
उत्तर…प्रभूतानि।
5…अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत –
शब्दः ……………..विलोमशब्दः
- (क) कृतज्ञता……(कृपणता, कृतघ्नता, कातरता)
- (ख) पक्वः….(परिपक्वः, अपक्वः, क्वथितः)
- (ग) परुषा….(पौरुषी, कोमला, कठोरा)
- (घ) विमूढधीः….(सुधीः, निधिः, मन्दधीः)
- (ङ) आलस्यम् …..(उद्विग्नता, विलासिता, उद्योगः)
- (च) कातरः …(अकरुणः, अधीरः, अकातरः)
उत्तर..
- (क) कृतज्ञता….कृतघ्नता
- (ख) पक्वः …अपक्वः
- (ग) परुषा….कोमला
- (घ) विमूढधीः…सुधीः
- (ङ) आलस्यम् ….उद्योगः
- (च) कातरः …अकातरः
6…अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः शब्दमञ्जूषायाः चित्वा लिखत –
- (क)चित्तम….
- (ख)मुखम्….
- (ग)प्रभूतम् … .
- (घ)चक्षुः ….
- (ङ)सभा …..
- (च) श्रेयः …….
शब्द मन्जूषा | ||
वदनम् | नयनम् | चेतः |
मनः | कल्याणम् | बहु |
संसद | भूरि | नेत्रम् |
लोचनं | वक्त्रम् | समितिः |
शुभं | मानसम् | शिवम् |
आननम् | विपुलम् | परिषद् |
उत्तर..
- (क) चित्तम्= मनः, मानसम्, चेतः ।
- (ख) मुखम्=वदनम्, आननम्, वक्त्रम् ।
- (ग) प्रभूतम् =भूरि, विपुलम्, बहु ।
- (घ) चक्षुः=नयनम्, लोचनम्, नेत्रम् ।
- (ङ) सभा= संसद्, समितिः, परिषद् ।
- (च) श्रेयः=शुभम्, कल्याणम्, शिवम् ।
7…पाठात् विचित्य समुचितैः विशेषणपदैः रिक्तस्थानानि पूरयत-
- (क)………मन्त्री परैः न परिभूयते…..।
- (ख) बुद्धिमान् सदा……..एव वाचं वदति ।…..
- (ग) यः सुखानि इच्छति सः…….. कर्म त्यजेत् । ………
- (घ) पुत्रः शैशवे पितुः ………..विद्याधनं प्राप्नोति ।……
- (ङ)……….. आचारः इति विद्वांसः मन्यन्ते ।…..
उत्तर…
- (क) वाक्पटुः धैर्यवान् सभायामपि अकातरः मन्त्री परैः न परिभूयते ।
- (ख) बुद्धिमान् सदा धर्मप्रदाम् एव वाचं वदति ।
- (ग) यः सुखानि इच्छति सः अहितं कर्म त्यजेत् ।
- (घ) पुत्रः शैशवे पितुः महत् विद्याधनं प्राप्नोति ।
- (ङ) प्रथमो धर्मः आचारः इति विद्वांसः मन्यन्ते ।
8…पाठात् चित्वा अधोलिखितपद्यांशानां भावम् उपयुक्तपदैः पूरयत –
(क) चित्ते वाचि च सरलता महात्मभिः…… मन्यते ।
(ख) पिता पुत्राय विद्यादानार्थं महत् कष्टं सहते। पुत्रेण अस्य अनुभूतिः एव…….कथ्यते।
(14)… म्ए..व धर्मप्रदां वाचं त्यक्त्वा….. वाचं वदति ।
(घ) अस्मिन् संसारे केवलं ……एव……. मन्तव्याः ।
(ङ) प्रत्येकं कथनस्य….. येन क्रियते सः……. अस्ति।
(च) यः मन्त्री (परामर्शदाता) तु…..वाक्पटुः धैर्यवान् सभायामपि अकातरः……भवति स अन्यैः कदापि न तिरस्क्रियते।
उत्तर….
(क) चित्ते वाचि च सरलता महात्मभिः…समत्वम् … मन्यते ।
(ख) पिता पुत्राय विद्यादानार्थं महत् कष्टं सहते। पुत्रेण अस्य अनुभूतिः एव…कृतज्ञता ….कथ्यते।
(14)…विमूढधीः ..एव धर्मप्रदां वाचं त्यक्त्वा…परुषां.. वाचं वदति ।
(घ) अस्मिन् संसारे केवलं …विद्वांसः …एव……चक्षुष्मन्तः . मन्तव्याः ।
(ङ) प्रत्येकं कथनस्य…तत्वार्थस्य निर्णयः .. येन क्रियते सः…विवेकः …. अस्ति।
(च) यः मन्त्री (परामर्शदाता) तु………..भवति स अन्यैः कदापि न।
- पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत
(क) पिता पुत्राय बाल्ये महत्……. यच्छति, अस्य पिता किम्……. तेपे, इत्युक्तिः………..।
(ख) येन केनापि यत् ……… । तस्य तत्त्वार्थनिर्णयः येन……..शक्यः भवेत्, सः……. इति ईतीरितः।
(ग) य आत्मनः श्रेयः……. सुखानि च इच्छति, सः परेभ्यः अहितम् ……कदापि च न………।
उत्तर…
(क) पिता पुत्राय बाल्ये महत्…विद्याधनं …. यच्छति, अस्य पिता किम्..तपः ….. तेपे, इत्युक्तिः……तत्कृतज्ञता…..।
(ख) येन केनापि यत् ….प्रोक्तं ….. । तस्य तत्त्वार्थनिर्णयः येन…..कर्तुम् …शक्यः भवेत्, सः….विवेकः … इति ईरितः
(ग) य आत्मनः श्रेयः…प्रभूतानि …. सुखानि च इच्छति, सः परेभ्यः अहितम् कर्म ……कदापि च न…कुर्यात् ……।
10…मज्जूषायाः तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथनानां समक्षं लिखत –
(क) विद्याधनं महत्
………….
…………….
(ख) आचारः प्रथमो धर्मः
……………
……………..
(ग) चित्ते वाचि च अवक्रता एव समत्वम्
………………..
………………….
मञ्जूषायाः सूक्तयः
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् । विद्याधनं सर्वधनप्रधानम् । सं वो मनांसि जानतां. विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् । आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः । |
उत्तर…
(क) विद्याधनं महत्।
1 विद्याधनं सर्वधनप्रधानम् ।
2 विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् ।
(ख) आचारः प्रथमो धर्मः
1आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्
2आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः ।
(ग) चित्ते वाचि च अवक्रता एव समत्वम्
1 मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ।
2 सं वो मनांसि जानतां।
11…अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रहः …………समस्तपदम्………..समासनाम
(क) तत्त्वार्थस्य निर्णयः………….षष्ठी तत्पुरुषः
(ख) वाचि पटुः….सप्तमी तत्पुरुषः
(ग) धर्म प्रददाति इति (ताम्)………….उपपदतत्पुरुषः
(घ) न कातरः ………….नञ् तत्पुरुषः
(ङ) न हितम् ……………नञ् तत्पुरुषः
(च) महान् आत्मा येषाम् ते…………बहुव्रीहिः
(च) विमूढा धीः यस्य सः………..बहुव्रीहिः
उत्तर…
विग्रहः …………समस्तपदम्………..समासनाम
(क) तत्त्वार्थस्य निर्णयः…तत्वार्थनिर्णयः ……….षष्ठी तत्पुरुषः
(ख) वाचि पटुः….वाक्पटुः….सप्तमी तत्पुरुषः
(ग) धर्म प्रददाति इति (ताम्)……धर्मप्रदाम् …….उपपदतत्पुरुषः
(घ) न कातरः …अकातरः ……….नञ् तत्पुरुषः
(ङ) न हितम् …अहितम् …………नञ् तत्पुरुषः
(च) महान् आत्मा येषाम् ते……महात्मानः ……बहुव्रीहिः
(च) विमूढा धीः यस्य सः……विमूढधीः …..बहुव्रीहिः
12..अधोलिखितेषु भिन्नप्रकृतिकं शब्दं रेखाङ्कितं कुरुत-
(क) तपः, धर्मः, श्रेयः, वचः।……(लिङ्गकारणात्)
(ख) तथ्यतः, विशेषतः, मुख्यतः, ईरितः ।…..(प्रत्ययकारणात्)
(ग) लघुता, प्रकीर्तिता, अवक्रता, कृतज्ञता….(प्रत्ययकारणात्)
(घ) लोके, चित्ते, वाचि, भुङ्क्ते ।….(विभक्तिकारणात्)
uttar
(क) तपः, धर्मः, श्रेयः, वचः।……(लिङ्गकारणात्)
(ख) तथ्यतः, विशेषतः, मुख्यतः, ईरितः ।…..(प्रत्ययकारणात्)
(ग) लघुता, प्रकीर्तिता, अवक्रता, कृतज्ञता…(प्रत्ययकारणात्)
(घ) लोके, चित्ते, वाचि, भुङ्क्ते।….(विभक्तिकारणात्)
- अधोलिखितवाक्येषु स्थूलाक्षरपदानां प्रसङ्गानुसारम् उचितम् अर्थ चित्वा लिखत –
(क) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
- (i) श्रेष्ठः ,(ii) कल्याणम्(iii) सम्पत्तिम्
उत्तर… कल्याणम्
(ख) तदैव आहुः महात्मानः समत्वमिति तथ्यतः ।
- (i) कथयन्ति ,(ii) शृण्वन्ति ,(iii) चिन्तयन्ति
उत्तर…कथयन्ति
(ग) वाक्पटुः धैर्यवान् मन्त्री सभायामप्यकातरः परैः न परिभूयते।
- (i) निपुणः ,(ii) उत्तमः श्रोता ,(iii) वाक्कुशलः
उत्तर..वाक्कुशलः
(घ) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् ।
- (i) कठोराम् ,(ii) कोमलाम् ,(iii) प्रयुक्ताम्
उत्तर..कठोराम्
(ङ) स विवेक इति ईरितः ।
- (i) दृष्टः,(ii) कथितः ,(iii) श्रुतः
उत्तर… कथितः
- पिता पुत्राय बाल्ये महत् विद्याधनम् यच्छति। अस्य (पुत्रस्य) पिता किम् तपः तेपे इति उक्तिः तत्कृतज्ञता।
- यथा अवक्रता चित्ते तथा यदि वाचि भवेत्, महात्मानः तथ्यतः तदेव समत्वम् इति आहुः ।
- यः धर्मप्रदाम् वाचम् त्यक्त्वा परुषाम् (वाचम्) अभ्युदीरयेत्। (सः) विमूढधीः पक्वम् फलम् परित्यज्य अपक्वम् (फलम्) भुङ्के।
- अस्मिन् लोके विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः । अन्येषाम् वदने ये (चक्षुषी) ते तु चक्षुर्नामनी मते।
- येन केन अपि यत् प्रोक्तम् तस्य तत्त्वार्थनिर्णयः येन कर्तुम् शक्यः भवेत्, सः विवेकः इति ईरितः ।
- (यः) मन्त्री वाक्पटुः, धैर्यवान्, सभायाम् अपि अकातरः (अस्ति) सः परैः केन अपि प्रकारेण न परिभूयते ।
- यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितम् कर्म कदापि न कुर्यात्।
- आचारः प्रथमः धर्मः इति एतत् विदुषाम् वचः, तस्मात् प्राणेभ्यः अपि सदाचारम् विशेषतः रक्षेत् ।
Vangamayam Tapah Sanskrit Class 10
अभ्यस्वशगमं मनः मणिका संस्कृत class 10
Aagya Gurunaam Hi Avicharaniya class10
रमणीया हि सृष्टि:एषा सा Sanskrit class 10