Sanskrit Class8 lesson9 Solution कोऽरुक्?कोऽरुक्?कोऽरुक्?

Sanskrit Class8 lesson9 Solution कोऽरुक्?कोऽरुक्?कोऽरुक्?

Sanskrit Class8 lesson9 Solution पाठ में पूछे गये सारे प्रश्नों का समाधान तथा अतिरिक्त पठित गद्यांश पर आधारित प्रश्न उत्तर…

१. अधोलिखितान् प्रश्नान् एकपदेन उत्तरत-

(क) शुकरूपं कः धृतवान् ?
उत्तरम्… धन्वन्तरिः।

(ख) धन्वन्तरिः (शुकः) कुत्र उपविश्य ध्वनिम् अकरोत् ?
उत्तर… पुष्पतरौ।

(ग) अन्ते शुकः कस्य आश्रमस्य समीपं गतवान् ?
उत्तरम्…. वाग्भटस्य।

(घ) ऋतवः कति सन्ति ?
उत्तरम्… षट्।

(ङ) वाग्भटः शुकस्य रहस्यं केभ्यः उक्तवान् ?
उत्तरम्… शिष्येभ्यः।

२. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयत –

(चरकस्य, कुटीरसमीपं, भारतवर्षे, आयुर्वेदज्ञानेन, अतिमात्रं)

  • (क)…….जनाः कथं निरामयाः भवन्ति?
  • (ख) अन्ते सः वैद्यस्य वाग्भटस्य………..गतवान्।
  • (ग) तव उत्कृष्टेन…… अहम् अतीव सन्तुष्टः अस्मि ।
  • (घ) महर्षेः …………नाम भवन्तः श्रुतवन्तः स्युः।
  • (ङ) लघुद्रव्याणि…….. सेवनेन हानिकराणि जायन्ते।

उत्तराणि-

  • (क) भारतवर्षे जनाः कथं निरामयाः भवन्ति ?
  • (ख) अन्ते सः वैद्यस्य वाग्भटस्य कुटीरसमीपम् गतवान् ।
  • (ग) तव उत्कृष्टेन आयुर्वेदज्ञानेन अहम् अतीव सन्तुष्टः अस्मि ।
  • (घ) महर्षेः चरकस्य नाम भवन्तः श्रुतवन्तः स्युः ।
  • (ङ) लघुद्रव्याणि अतिमात्रम् सेवनेन हानिकराणि जायन्ते।

३. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत –

(क) मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः किम् अकरोत् ?
उत्तर…मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः सर्वासु दिक्षु अपश्यत्।

(ख) वाग्भटः झटिति किम् अकरोत् ?
उत्तर…वाग्भटः झटिति तस्मै विहगाय फलं समर्पितवान्।

(ग) छात्राः पुनः जिज्ञासया आचार्यं किम् अपृच्छन् ?
उत्तर…छात्राः पुनः जिज्ञासया आचार्यं अपृच्छन्…. आचार्य! ‘हितभुक्, मितभुक्, रितभुक् ‘इति एतेषां कः आशयः? “

(घ) भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण किं प्रदत्तवान् ?
उत्तर…भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण स्वास्थ्यरक्षणाय सुत्ररुपेण संदेशं प्रदत्तवान्।

(ङ) ऋषयः नित्यं कां प्रार्थनां कुर्वन्ति ?
उत्तर..सर्वे भवन्तु सुखिनः,सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् “इति ऋषयः नित्यं प्रार्थनां कुर्वन्ति।

4…पाठात् यथोचितानि विशेषणपदानि विशेष्यपदानि वा चित्वा रिक्तस्थानानि पूरयत…

विशेषणं विशेष्यम् विशेषणम् विशेष्यम्
विभिन्नानां व्याधीनाम् …………..वैद्याः
मनोहरम् …………….………….वृक्षे
…………..प्राङ्गणे …………..वाणीम्
…………..वाग्भटः लौकिकः ……………
मधुराणि ……………समुचितम् …………….
………….वैद्यस्य ………….शिष्याः
महर्षेः ………सात्विकम् ………….

उत्तर…

विशेषणंविशेष्यम्विशेषणंविशेष्यम्
विभिन्नानांव्याधीनाम्प्रख्याताः वैद्याः
मनोहरम्शुकरूपम् पार्श्वस्थे वृक्षे
विशाले प्राङ्गणेमधुराम् वाणीम्
वैद्यः वाग्भटःलौकिकःखगः
मधुराणिफलानि समुचितम्उत्तरम्
उत्तमस्य वैद्यस्यविस्मिताः शिष्याः
महर्षेःचरकस्य सात्विकम् भोजनम्

६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत –

  • (क) अस्माभिः नित्यं व्यायामः, स्नानं, दन्तधावनं, बुभुक्षायाञ्च भोजनं कर्तव्यम्।
  • …………………………………….
  • (ख) अस्माभिः हितकरः आहारः सेवनीयः येन विकाराणां शमनं स्वास्थ्यस्य च रक्षणं भवेत् ।
  • ………………………………..
  • (ग) ऋतोः अनुसारं भोजनेन बलस्य वर्णस्य च अभिवृद्धिः भवति ।
  • ………………………..

उत्तर…

  • (क) व्यायामः प्रातरुत्थायं, नित्यं दन्तविशोधनम्। स्वच्छजलेन सुस्नानं बुभुक्षायाञ्च भोजनम्।
  • (ख) तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनामुवर्त्तते। अजातानां विकाराणामनुत्पत्तिकरं च यत्।।
  • (ग) तस्याशिताद्यादाहारात् बलं वर्णश्च वर्धते । तस्यर्तुसात्म्यं विदितम् चेष्टाहारव्यपाश्रयम्।।

अतिरिक्त अभ्यास…

(ख) सार्थकं मानुषध्वनि कुर्वन्त शुक दृष्ट्वा विस्मितः वाग्भटः चिन्तितवान्-“नायं लौकिकः खगः। एषः निश्चयेन कश्चन देवविशेषः अस्ति”। सः झटिति तस्मै विहगाय मधुराणि फलानि समर्पितवान् परन्तु सः खगः फलानि न गृहीत्वा पुनरपि तथैव ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति प्रश्नस्वरेण शब्दमकरोत्। अथ वैद्यः वाग्भटः अचिन्तयत् यत् यावत् खगः स्वप्रश्नानाम् उत्तराणि न प्राप्नोति तावत् अयं भोजनं न वाञ्छति इति। ततः सः अचिरादेव सूत्ररूपाणि त्रीणि उत्तराणि प्राददात्- ‘हितभुक्’ ‘मितभुक्’ ‘ऋतुभुक्’ इति । समुचितम् उत्तरं श्रुत्वा अत्यन्तं प्रीतः सः शुकः वाग्भटेन अर्पितानि फलानि खादितवान्।

प्रश्नाः –

I. एकपदेन उत्तरत-

  1. (क) वाग्भटः किं कुर्वन्तं शुकम् अपश्यत्?
  2. (ख) किं दृष्ट्वा वाग्भटः विस्मितः अभवत्?
  3. (ग) कः झटिति विहगाय मधुराणि फलानि समर्पितवान्?
  4. (घ) कः फलानि न गृहीतवान्?

II. पूर्णवाक्येन उत्तरत-

  1. (क) शुकः किम् अवदत् ?
  2. (ख)सार्थकं मानुषध्वनि कुर्वन्तं शुकं दृष्ट्वा विस्मितः वाग्भटः किम् चिन्तितवान्?
  3. (ग)वाग्भटः सूत्र रूपेण किमवदत्?
  4. (घ)उचितं उत्तरम् श्रुत्वा कः प्रीतः अभवत्?

III. यथानिर्देशम् उत्तरत-

(i) ‘लौकिकः खगः’ इत्यत्र विशेषणपदं किम्?

(क) अयम् (ख) खगः(ग) न (घ) लौकिकः

(ii) ‘समर्पितवान्’ इति पदस्य कर्तृपदं किम?

  • (क) खगाय
  • (ख) फलानि
  • (ग) सः
  • (घ) मधुराणि

(iii) ‘आकर्ण्य’ इत्यर्थे किं पदं प्रयुक्तम्?

  • (क) दृष्ट्वा
  • (ख) श्रुत्वा
  • (ग) आगत्य
  • (घ) विस्मितः

उत्तराणि-

1.एक पदेन

(क) मधुरां वाणीम् (ख) शुकम् (ग) वाग्भटः (घ) शुकः

II.पूर्ण वाक्येन…

  • (क) शुकः ‘कोऽरुक् कोऽरुक्’ इत्यवदत्।
  • (ख)सार्थकं मानुषध्वनि कुर्वन्तं शुकं दृष्ट्वा विस्मितः वाग्भटः चिन्तितवान्—“नायं लौकिकः खगः।
  • (ग)वाग्भटः सूत्र रूपेण ‘हितभुक्’ ‘मितभुक्’ ‘ऋतुभुक्‘…इति अवदत्
  • (घ) उचितम् उत्तरं श्रुत्वा शुकः प्रीतः अवदत् ।

III.यथा निर्देशम् उत्तरत्…इसके उत्तर..

  • (i) (घ) लौकिकः
  • (ii) (ग) सः
  • (iii) (ख) श्रुत्वा

संस्कृत कक्षा 8 Dijibharatam Yugparivartanam Question Answer

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top