Sanskrit Class 7Lesson 5 Solution Question Answer सेवा हि परमो धर्मः
NCERT Sanskrit Class 7 Lesson 5 सेवा हि परमो धर्मः इस पाठ में पूछे गये प्रश्नों के solution
१. अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु –
(नीचे लिखे हुए प्रश्नों के, एक य दो पदों में उत्तर लिखो….)
(क) कः प्रसिद्धः चिकित्सकः आसीत्?
कौन प्रसिद्ध चिकित्सक था?
उत्तर..नागार्जुनः।( नागार्जुन)
(ख) अन्यस्मिन् दिवसे कौ आगतौ ?
दूसरे दिन कौन दो (लोग) आये?
उत्तर… द्वौ युवकौ। (दो युवक)
(ग) कः खिन्नः आसीत् ?
(कौन दुखी था?)
उत्तर.. द्वितीयः युवकः। (दूसरा युवक।)
(घ) रुग्णस्य परिस्थितिः कथम् आसीत्?
( बीमार (व्यक्ति) की स्थिति कैसी थी?)
उत्तर.. शोचनीया।(चिन्तनीय)
(ङ) नागार्जुनः सहायकरूपेण कम् चितवान्?
( नागार्जुन नें सहायक के रूप में किसे चुना?)
उत्तर… द्वितीयम् युवकम्।(दूसरा युवक को)
(च) कां विना चिकित्सकः न भवति ?
(किस के (भावना)बिना चिकित्सक नहीं हो सकता?)
उत्तर.. सेवाभावनाम् बिना। (सेवा भावना के बिना)
(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान्?
(नागार्जुन नें युवकों को किस मार्ग से जाने के लिये सूचित किया?)
उत्तर… राजमार्गेण। (राजमार्ग से।)
पञ्चमो पाठः सेवा हि परमो धर्मः
२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु –
(नीचे लिखे गये प्रश्नों के उत्तर पूर्ण वाक्य में लिखो…)
(क) अहोरात्रं नागार्जुनः कुत्र कार्यम् करोति स्म ?
(दिन रात नागार्जुन कहाँ कार्य करता था?)
उत्तर..अहोरात्रं नागार्जुनः प्रयोगशालायाम् कार्यम् करोति स्म।
(ख) नागार्जुनः महाराजं किं निवेदितवान्?
( नागार्जुन ने. महाराज से क्या निवेदन किया?)
उत्तर..नागार्जुनः महाराजं निवेदितवान्… “मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति।
(ग) प्रथमः युवकः कथं कार्यं कृतवान्?
(प्रथम युवक ने कैसे कार्य किया?)
उत्तर…प्रथमः युवकः यन्त्रवत् कार्यं कृतवान्।
(घ) द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?
( दूसरे युवक नें मार्ग में रोगी को देख कर क्या किया?)
उत्तर.. द्वितीयः युवकः रोगिणं स्वगृहं नीत्वा तस्य सेवाम् कृतवान्।
(ङ) सेवायाः भावनां विना कि न भवेत् ?
(सेवा की भावना के बिना क्या नहीं होता है?)
उत्तर..सेवायाः भावनां विना चिकित्सकः न भवेत्।
Sanskrit Class 7Lesson 5 Solution Question Answer
३. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्ङ्गरूपाणि लिखन्तु –
(उदाहरण के अनुसार नीचे लिखे गये पदों के स्त्रीलिङ्ग रूप लिखो..)
………पु. रूप……………….एकवचनम्……… बहुवचनम्
- (क) पठितवान्……….पठितवती…………..पठितवत्यः
- (ख) गतवान्
- (ग) लिखितवान्
- (घ) खादित्तवान्
- (ङ) क्रीडितवान्
- (च) हसितवान्
- (छ) निवेदितवान्
- (ज) सूचितवान्
उत्तर….
| पुलिङ्गशब्द | स्त्रिलिङ्ग् एकवचन | स्त्रिलिङ्ग् बहुवचन |
| (क) पठितवान् | पठितवती | पठितवत्यः |
| (ख) गतवान् | गतवती | गतवत्यः |
| (ग) लिखितवान् | लिखितवती | लिखितवत्यः |
| (घ) खादित्तवान् | खदितवती | खदितवत्यः |
| (ङ) क्रीडितवान् | क्रीडितवती | क्रीडितवत्यः |
| (च) हसितवान् | हसितवती | हसित्वत्यः |
| (छ) निवेदितवान् | निवेदितवती | निवेदितवत्यः |
| (ज) सूचितवान् | सुचितवती | सुचितवत्यः |
४. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु
(उदाहरण के अनुसार नीचे लिखे गये पदों के पुलिङ्ग रूप लिखो..)
स्त्रिलिङ्ग् रूप……………….एकवचनम्………..बहुवचनम्
- (क) पठितवती………..पठितवान……..पठितवन्तः
- (ख) कृतवती
- (ग) दृष्टवती
- (घ) दत्तवती
- (ङ) प्रक्षालितवती
- (च) धावितवती
उतर…
………….एकवचनम्………..बहुवचनम्
- (क) पठितवती………..पठितवान् ………..पठितवन्तः
- (ख) कृतवती…………. कृतवान्……….. कृतवन्तः
- (ग) दृष्टवती……………. दृष्टवान्………… दृष्टवन्तः
- (घ) दत्तवती……………. दत्तवान्………… दत्तवन्तः
- (ङ) प्रक्षालितवती……… प्रक्षालितवान्……. प्रक्षालितवन्तः
- (च) धावितवती…………. धावितवान्……….. धवितवन्तः
५. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु –
( उदाहरण के अनुसार वाक्यों को परिवर्तित करो…)
यथा -पिता कषायं पिबति।……पिता कषायं पीतवान्।
अहं पुस्तकं नयामि।……..अहं पुस्तकं नीतवान्/ नीतवती ।
- (क) युवकः आपणं गच्छति।
- (ख) सः रोटिकां खादति।
- (ग) महिला वस्त्रं ददाति ।
- (घ) बालकः द्विचक्रिकातः पतति।
- (ङ) पितामही चलचित्रं पश्यति।
- (च) अहं गृहपाठ लिखामि।
- (छ) त्वं कुत्र गच्छसि ?
- (ज) अश्वाः वने धावन्ति ।
- (झ) बालिकाः शीघ्रम् आगच्छन्ति।
- (ञ) वयं समुद्रतीर पयोहिमं खादामः ।
उत्तर…
| (क) युवकः आपणं गच्छति। | युवकः आपणं गतवान् |
| (ख) सः रोटिकां खादति। | सः रोटिकां खदितवान् /खादितवती । |
| (ग) महिला वस्त्रं ददाति । | महिला वस्त्रं दत्तवती। |
| (घ) बालकः द्विचक्रिकातः पतति। | बालकः द्विचक्रिकातःपतितवान्। |
| (ङ) पितामही चलचित्रं पश्यति। | पितामही चलचित्रं दृष्टवती। |
| (च) अहं गृहपाठम् लिखामि। | अहं गृहपाठम् लिखितवान् /लिखितवती। |
| (छ) त्वं कुत्र गच्छसि ? | त्वं कुत्र गतवान् /गतवती.। |
| (ज) अश्वाः वने धावन्ति । | अश्वाः वने धावितवन्तः। |
| (झ) बालिकाः शीघ्रम् आगच्छन्ति। | बालिकाः शीघ्रम् आगत्वत्यः। |
| (ञ) वयं समुद्रतीर पयोहिमं खादामः । | वयं समुद्रतीर पयोहिमं खादितवन्तः / खदितवती। |
अत्र इदम् अवधेयम्…
वर्तमानकाल-क्रियापदेन सह ‘स्म’ इति अव्ययस्य योजनेन भूतकालस्य अर्थः भवति।
(वर्तमान काल की क्रिया के साथ स्म यह अव्यय जोड़ने से भूतकाल का अर्थ हो जाता है।)
यथा- सः बाल्ये पुस्तकानि पठति।(वह बचपन में पुस्तकें पढ़ता है ) लट् लकार =वर्तमान काल।
सः बाल्ये पुस्तकानि पठति स्म (अपठत्)।उसने बचपन में पुस्तकें पढ़ी। लङ्ग लकार =भूत काल। पठति में स्म जोड़ने से वह भूत काल बन गया।
६. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति। उपरि दत्तम् अवधेयांशं पठित्वा ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु।
………………………..(शीर्षक लिखन्तु)
कृषकः प्रतिदिनं कृषिक्षेत्रं………(गच्छ)। जलसेचनं……(कृ)1कीटानां निवारणार्थ जैवौषधं……(स्थापय्)। सः कृषिकार्य सम्यक्…..(ज्ञा)। अतः अन्ये कृषकाः संशयेन….(पृच्छ)। सः स्वाभिमानेन……(जीव)। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं..(वद)।सः क्षेत्रे गोमयं…..(योजय), न तु कृतकान् पदार्थान्। अतः ब्रीहेः गुणवत्ता अधिकाएवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं…….(भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं (क्रीण)। एवम् तस्य परिवारस्य सर्वे जनाः कृषि कार्येण ससुखम् (जीव्)। सः सर्वान्……..(वद) “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति।
उत्तर…
कृषकः प्रतिदिनं कृषिक्षेत्रं………गच्छति स्म । जलसेचनं…..करोति स्म .(कृ)1कीटानां निवारणार्थ जैवौषधं…..स्थापयति स्म । सः कृषिकार्य सम्यक्…जानाति स्म ..। अतः अन्ये कृषकाः संशयेन….पृच्छन्ति स्म (पृच्छ)। सः स्वाभिमानेन….जीवति स्म ..(जीव)। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं.वदति स्म .।सः क्षेत्रे गोमयं…..योजयति स्म , न तु कृतकान् पदार्थान्। अतः ब्रीहेः गुणवत्ता अधिकाएवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं….भवति स्म …(भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं………क्रीणान्ति स्म ।एवम् तस्य परिवारस्य सर्वे जनाः कृषि कार्येण ससुखम् जीवन्ति स्म। सः सर्वान्….वदति स्म …. “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति।
शीर्षक… “मानवानां पोषकः कृषकः “
Sanskrit Class 7Lesson 5 Solution Question Answer
अतिरिक्त अभ्यास (गद्यांश 1)
1. अधोलिखिते गद्यांशम् पठित्वा प्रश्नान् उत्तरत-
नागार्जुनः प्रसिद्धः रसायनशास्त्रज्ञः चिकित्सकः च-आसीत्। सः अहोरात्रं प्रयोगशालायां कार्य करोति स्म। एकदा सः महाराजं निवेदितवान् – “महाराज! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति। राजा एतद् अङ्गीकृतवान् उक्तवान् च ‘अस्तु, अहं व्यवस्थां करोमि । श्वः केचन योग्याः युवकाः आगमिष्यन्ति। भवान् परीक्षां कृत्वा तेषु युवकेषु कमपि योग्यं स्वीकरोतु’ इति।
अन्यस्मिन् दिने द्वौ युवकौ आगतवन्तौ। नागार्जुनः द्वयोः विद्याभ्यासविषये पृष्टवान्। द्वयोः अपि विद्याभ्यासविषयः समानः एव आसीत्। तदा नागार्जुनः तौ एकं विशिष्टं रसायनं निर्माय आगच्छताम् इति सूचितवान्। तदर्थं दिनद्वयस्य अवसरं दत्तवान्। “गमनसमये राजमार्गेण गच्छताम् ” इत्यपि सूचितवान्।
1..एक पदेन उत्तरत्…
- 1..नागार्जुनः अहोरात्रं कुत्र कार्यं करोति स्म?
- 2.चिकित्सा कार्याय कः आवश्यकः?
- 3..नागार्जुनः तौ युवकौ किम् निर्माय सूचितवान्?
2..पूर्णवाक्येन उत्तरत-
- (1) नागार्जुनः महाराजं किं निवेदितवान्?
- (2) नागार्जुनःद्वौ युवकौ किम् सूचितवान्?
3.. निर्देशानुसारम् उत्तरत-
(1) ‘आगतवन्तौ’ इति क्रियापदस्य कर्तृपदं किम्?
(क) युवकौ (ख) दिने (ग) द्वौ (घ) अन्य
(ii) विशिष्टं रसायनं निर्माय आगच्छताम् ‘ अत्र विशेषण-पदं किम्?
(क) विशिष्टः (ख) रसायनः(ग) निर्माय(घ) आगच्छताम्
(iii) ‘करोमि ‘ अस्मिन् क्रियापदे कः लकारः?
(क) लोट् (ख) लट् (ग) लृट् (घ) लङ्
(iv) ‘राजमार्गेण’ अत्र का विभक्ति ?
(क) द्वितीया (ख) तृतीया (ग) चतुर्थी (घ) षष्ठी
उत्तर.. गद्यांश 1..
- एक पदेन उत्तर… 1..प्रयोगशालायां., 2..सहायकः , 3..विशिष्टं रसायनं
- पूर्णवाक्येन..1..”महाराज! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति नागार्जुनः निवेदितवान्।
- 2..नागार्जुनः द्वौ युवकौ एकं विशिष्टं रसायनं निर्माय आगच्छताम् इति सूचितवान्।गमनसमये राजमार्गेण गच्छताम् ” इत्यपि सूचितवान्।
- 3.. निर्देशानुसारम् उत्तरत- (1)युवकौ , (2)विशिष्टं, (3) लट् लकारः (4)तृतीया
गद्यांश 2…
दिनद्वयानन्तरं नागार्जुनस्य समीपे प्रथमः युवकः आगतवान्। “औषधनिर्माणे किमपि कष्टं न अभवत् खलु?” इति नागार्जुनः पृष्टवान्। युवकः स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान् – “पितुः उदरवेदना, मातुः ज्वरः च आसीत्। तथापि अहं तत्सर्वं परित्यज्य औषधं निर्मितवान्” इति उक्त्वा नागार्जुनाय रसायनं दत्तवान्।
तदभ्यन्तरे द्वितीयः युवकः अपि आगतवान्। सः खिन्नः आसीत्। तमपि नागार्जुनः पृष्टवान्। तदा युवकः उक्तवान् “अहम् औषधं निर्मातुं न शक्तवान्” इति। “किमर्थं न शक्तवान्?” इति नागार्जुनः पृच्छति ।
प्रश्नाः-
- 1..प्रथमः युवकः कदा आगतवान्?
- 2..युवकः नागार्जुनाय किम् दत्तवान्?
- 3..खिन्नः कः आसीत् ?
2… पूर्णवाक्येन उत्तरत-
- 1..प्रथमं युवकम् नगार्जुनः किम् पृष्टवान्?
- (2) युवकः किम् वर्णितवान्? द्वितीयः युवकः किम् उक्तवान्?
3. निर्देशानुसारम् उत्तरत-
(1) तदभ्यन्तरे द्वितीयः युवकः अपि आगतवान् अत्र ‘ आगतवान् इति क्रियापदस्य कर्तृपदं किम्?
(क) द्वितीयः (ख)युवकः(ग) अपि(घ) तदभ्यन्तरे
(2) ‘त्यक्त्वा’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) खिन्नः (ख) परित्यज्य (ग) उक्त्वा (घ) तमपि
3..प्रसन्नः इत्यस्य किम् विलोम पदं प्रयुक्तम्?
(क) कष्टं (ख)..खिन्नः (ग) दुखितः
4..’अभवत् इति क्रियापदे कः लकारः?
(क) लट् लकार, (ख) लोट् लकार (ग) लङ्ग लकार
उत्तर.. गद्यांश 2..
- एक पदेन.. (1)दिनद्वयानन्तरं (2)रसयानं , (3)द्वितीयः युवकः
- पूर्ण वाक्येन..(1) “औषधनिर्माणे किमपि कष्टं न अभवत् खलु?” इति नागार्जुनः पृष्टवान्।
- (2)युवकः स्वगृहस्य समस्याः वर्णितवान्।
- 3… निर्देशानुसारम् उत्तरत- (1) युवकः, (2) परित्यज्य , (3) खिन्नः(4) लङ्ग लकारः