Avivekah Param Apadam Padam ….NCERT Samadhan for “अविवेकः परमापदां पदं “। विवेक शून्यता बड़ी मुसीबतों का कारण होती हैं।
ततस्तेन नकुलेन बालसमीपमुपसर्पन् कृष्णसर्पो दृष्टः ।
पाठ का संक्षिप्त परिचय –
यह कथा हितोपदेश से ली गई है। हितोपदेश नारायण पण्डित की रचना है। इस कथा में माधव नाम का ब्राह्मण बिना विचार किये ही अपने बालक की सर्प से रक्षा करने वाले नेवले को मार देता है। तथा अन्त में पश्चात्ताप से संतप्त होकर वह दुःखी होता है। “अच्छी प्रकार सोच-विचार करके ही कर्म करना चाहिए”-यही इस पाठ द्वारा संदेश दिया गया है।
ऋचा=व्योम ! एकं प्रश्नं पृच्छामि। कः सः पशुः यः सर्पस्य शत्रुः ?
ऋचा… व्योम!एक प्रश्न पूछती हूँ। वह कौन सा जानवर है जो साँप का शत्रु है?
व्योमः=ऋचे ! गरुडः सर्पम् भक्षयति । मयूरः अपि अहिभुक् कथ्यते ।
व्योम.. ऋचा! गरुड़ साँप को खा जाता है, मोर भी अहिभुक् अर्थात साँप को खाने वाला कहा जाता है।
ऋचा=व्योम ! एतौ तु खगौ, न तु पशू ।
ऋचा.. व्योम! ये दोनों पक्षी हैं न कि पशु।
व्योमः=आम्, ज्ञातम्। एषः नकुलः सर्पस्य शत्रुः यस्य चित्रम् अत्र दत्तम् ।
व्योम.. हाँ पता है। यह नेवला साँप का शत्रु है, जिसका चित्र यहां दिया गया है।
ऋचा…इदानीं वद, किम् अस्यां कथायां सर्पः बालं दशति अथवा नकुलः सर्पं मारयति ?
ऋचा.. अब बताओ.. इस कथा में साँप बालक को डंसता है या नेवला साँप को मारता है?
व्योमः .एतत् तु कथां पठित्वा एव ज्ञास्यामः परन्तु प्रथमम् एतत् वद – कुतः गृहीता एषा कथा ?
व्योम… यह तो कथा को पढ़कर ही जानेंगे, परन्तु पहले यह बताओ कि यह कथा कहाँ से ली गई है?
ऋचा….मम आचार्या अकथयत्-एषा कथा हितोपदेशात् गृहीता। तत्र अनेकाः मनोरञ्जकाः नीतिकथाः सन्ति।
ऋचा.. मेरी शिक्षिका ने कहा– कि यह कथा हितोपदेश से ली गई है। उसमें अनेक मनोरञ्जक और नीतियुक्त कथाएं हैं।
व्योमः….बाढम् । पाठं पठित्वा तव प्रश्नस्य उत्तरं दास्यामि ।
व्योम.. ठीक है। पाठ को पढ़ कर तुम्हारे प्रश्न का उत्तर दूँगा।
ऋचा….शोभनम् ! अधुना पाठं पठामः ।
ऋचा……अच्छी बात है! अब पाठ पढ़ते हैं।
अविवेकः परमापदां पदम्
अस्ति उज्जयिन्यां माधवः नाम विप्रः । एकदा तस्य भार्या स्वबालापत्यस्य रक्षार्थं तम् अवस्थाप्य स्नातुं गता। अथ ब्राह्मणः राज्ञा श्राद्धार्थं निमन्त्रितः । ब्राह्मणः सहजदारिद्र्यात् अचिन्तयत्-यदि सत्वरं न गच्छामि तर्हि अन्यः कश्चित् श्राद्धार्थं वृतः भवेत् । यतः-
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥
अन्वयः – आदानस्य प्रदानस्य क्षिप्रम् अक्रियमाणस्य च कर्त्तव्यस्य कर्मणः तद्-रसम् कालः पिबति ।
शब्दार्थ — विप्रः – ब्राह्मण या पण्डित ,एकदा – एक बार , भार्या =पत्नी ,स्व-बाल-अपत्यस्य =अपनी बालक सन्तान (पुत्र) की , रक्षार्थम् = रक्षा के लिए , अवस्थाप्य= नियुक्त करके , स्नातुम् = स्नान के लिए , राज्ञा = राजा द्वारा ,निमन्त्रितः = निमन्त्रित किया गया ,बुलवाया गया, सहज-दारिद्र्यात् =जन्म से प्राप्त गरीबी के कारण, सत्वरम् = तुरन्त, शीघ्र , वृतः भवेत् – बुलाया जा सकता है , यतः- क्योंकि.।
श्लोक शब्दार्थ—कालः = समय, आदानस्य = लेने का, प्रदानस्य = देने का , कर्तव्यस्य =करने योग्य का, कर्मणः =कर्म का ,क्षिप्रम् – शीघ्र, तुरन्त , अक्रियमाणस्य – न किये जाने वाले (कार्य)का, रसम् – रस को या आनन्द , पिबति = पी लेता है.. अर्थात नष्ट कर देता है।
अर्थ—उज्जयिनी में माधव नाम का एक ब्राह्मण था। एक बार उसकी पत्नी अपने बालक पुत्र की रक्षा के लिए उस (ब्राह्मण) को नियुक्त करके स्नान के लिए चली गई। उसके बाद वह ब्राह्मण राजा के द्वारा श्राद्ध के लिए बुलाया गया। जन्म से प्राप्त गरीबी के कारण ब्राह्मण ने सोचा, “यदि मैं जल्दी नहीं जाता हूँ, तब दूसरा कोई श्राद्ध के लिए बुलाया जा सकता है, क्योंकि-
श्लोक अर्थ…लेन- देन और करने योग्य कार्य को यदि तुरन्त नहीं किया जाता है तो समय उसका रस पी लेता है.. अर्थात समय उस कार्य के आनन्द को, महत्व को नष्ट कर देता है।
संधि-विच्छेदः …..
- स्वबालापत्यस्य=स्वबाल + अपत्यस्य, (दीर्घसन्धि)
- श्राद्धार्थम् = श्राद्ध + अर्थम्, (दीर्घसन्धि)
- रक्षार्थम् – रक्षा + अर्थम्, (दीर्घसन्धि)
- स्नातुंगता =स्नातुम् + गता, (अनुस्वार सन्धि)
- तद्रसम् = तत् + रसम्, (जश्त्व सन्धि)
- कश्चित् = कः + चित्, (विसर्गसन्धि)
- सत्वरं न= सत्वरम् + न, (अनुस्वार सन्धि)
- क्षिप्रमक्रियमाणस्य = क्षिप्रम् + अक्रियमाणस्य (संयोग)
प्रकृति प्रत्यय…
- अवस्थाप्य = अव + स्था + णिच् + ल्यप् ।
- स्नातुम् = स्ना + तुमुन् ।
- गता = गम् + क्त ।
- निमन्त्रितः = नि + मन्त्र् + क्त ।
- वृतः = वृ + क्त ।
- कर्तव्यस्य = कृ + तव्यत् ।
पद-परिचयः ….
- उज्जयिन्याम्=उज्जयिनी शब्द, सप्तमी विभक्ति, एकवचन, स्त्रीलिङ्ग
- राज्ञा=राजन् शब्द, तृतीया विभक्तिः, एकवचन, पुल्लिङ्ग
- अपत्यस्य = अपत्य संज्ञा शब्द, नपुंसक लिङ्ग षष्ठी एक वचन
- अलुठत् =लुठ् धातु , लङ्ग लकार प्रथम पुरुष, एक वचन।
- कर्मणः=कर्मन् शब्द, नपुंसकलिङ्ग, षष्ठी विभक्ति, एकवचन,
Avivekah Param Apadam Padam
किन्तु बालस्य अत्र रक्षकः नास्ति । तत् किं करोमि ? भवतु, चिरकालपालितम् इमं पुत्रनिर्विशेषं नकुलं बालरक्षायां व्यवस्थाप्य गच्छामि। तथा कृत्वा गतः । ततस्तेन नकुलेन बालसमीपम् उपसर्पन् कृष्णसर्पः दृष्टः । स तं व्यापाद्य खण्डशः कृतवान् । अत्रान्तरे ब्राह्मणोऽपि श्राद्धं गृहीत्वा गृहम् उपावृत्तः । ब्राह्मणं दृष्ट्वा नकुलः रक्त-विलिप्त-मुख-पादः तस्य चरणयोः अलुठत्। विप्रः तथाविधं तं दृष्ट्वा बालकोऽनेन खादितः इति अवधार्य कोपात् नकुलं व्यापादितवान्। अनन्तरं यावत् उपसृत्य अपत्यं पश्यति तावद् बालकः सुस्थः सर्पश्च व्यापादितः तिष्ठति । ततः तम् उपकारकं नकुलं मृतं निरीक्ष्य आत्मानं मुषितं मन्यमानः ब्राह्मणः परं विषादम् अगच्छत्। अत उच्यते-
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ।।
अन्वयः – क्रियाम् सहसा न विदधीत। अविवेकः आपदाम् परम् पदम्(अस्ति) । गुणलुब्धाः संपदः स्वयम् एव विमृश्यकारिणम् (नरम् ) हि वृणते ।
शब्दार्थ — बालस्य = बच्चे का , अत्र =यहाँ (इस घर में )भवतु = अच्छा , चिर-काल-पालितम्= बहुत समय से पाले गये , पुत्र-निर्विशेषम् = पुत्र के समान, नकुलम् = नेवले को, व्यवस्थाप्य = नियुक्त करके , ततः = उसके बाद, बाल-समीपम् = बाल/बच्चे के पास ,उपसर्पन्= रेंगते हुए , कृष्ण-सर्पः = काला सांप , दृष्टः = देखा, व्यापाद्य=मार कर, खण्डशः = टुकड़े-टुकड़े. कृतवान् = कर दिया, उपावृत्तः= वापस आया, रक्त-विलिप्त-मुख-पादः = खून से लथपथ मुख व पैरों वाला, तच्चरणयोः = उसके पैरों में, अलुठत्= लोटने लगा ।
शब्दार्थ – तथाविधम् – उस प्रकार (खून से लथपथ मुख व पैर वाले) तम् =उसको(नेवले को), दृष्ट्वा =देख कर ,खादितः = खाया गया है, अवधार्य = मान कर, कोपात्= क्रोध से , व्यापादितवान् =मार डाला, सुस्थः = अच्छा , अपत्यम् = सन्तान को , उपकारकम् = उपकार करने वाले को, मुषितम् – ठगा हुआ, मन्यमानः – मानते हुए, विषादम्-अगमत्-दुःख को प्राप्त हुआ अर्थात दुखी हो गया।
श्लोक शब्दार्थ—-क्रियाम् = कार्य को, सहसा =अचानक बिना सोचे, न विदधीत= नहीं करना चाहिए, अविवेकः = विवेक (ज्ञान) शून्यता, अर्थात अच्छे या बुरे परिणाम का विचार न करना, आपदाम् = मुसीबतों का, परम् = सबसे बड़ा, पदम् = कारण,स्थान, आश्रय,, हि=निश्चय ही , गुणलुब्धाः= गुणों के प्रति आकर्षित होने वाली, गुणों को पसंद करने वाली, संपदः = सम्पत्तियाँ , स्वयम् एव = खुद ही , विमृश्य-कारिणम् = सोच समझ कर काम करने वाले व्यक्ति को, वृणते = वरण करती हैं, चुनती हैं।
परन्तु यहाँ बालक की रक्षा करने वाला नहीं है। तो क्या करूँ? अच्छा, बहुत समय से पुत्र के समान पाले हुए इस नेवले को बालक की रक्षा के लिए नियुक्त करके जाता हूँ।(ब्रह्मण)वैसा करके चला गया।
फिर उस नेवले ने बालक के पास जाते हुए (एक) काले साँप को देखा। उसने उसको (सांप को)मारकर उसके टुकड़े-टुकड़े कर दिया। इसके बाद ब्राह्मण भी श्राद्ध लेकर घर वापस आया। ब्राह्मण को देखकर, खून से सने हुए मुख व पैरों वाला नेवला उसके चरणों में लोटने लगा । ब्राह्मण ने उसको वैसा देखकर ‘इसने बालक को खा लिया है’, ऐसा समझकर क्रोध में नेवले को मार दिया। बाद में जब पास जाकर सन्तान को देखता है तब बालक सही रूप में विद्यमान (था) और सर्प मरा हुआ पड़ा था। तब उस उपकार करने वाले नेवले को मरा हुआ देख कर अपने आपको ठगा मानता हुआ दुखी हो गया।इसलिए कहा जाता है-
श्लोक अर्थ…अचानक (आवेश में बिना सोचे-समझे) कोई कार्य नहीं करना चाहिए। विवेकशून्यता बड़ी आपत्तियों का कारण होती है। (इसके विपरीत) निश्चित ही सोच-समझकर (विवेकपूर्वक) कार्य करने वालों के गुणों पर लुब्ध (आकृष्ट) होकर सम्पत्तियाँ (धन-दौलत, सुख) स्वयं ही (उनको) चुन लेती है (उनका वरण कर लेती हैं)।
अविवेकः परमापदां पदं
संधि कार्य…
- ब्राह्मणोऽपि= ब्राह्मणः + अपि, (विसर्ग संधि)
- बालकोऽनेन= बालकः + अनेन, (विसर्ग संधि)
- अपत्यं पश्यति =अपत्यम् + पश्यति = (अनुस्वार संधि)
- अत उच्यते=अतः + उच्यते, (विसर्ग संधि)
- ततस्तेन= = ततः + तेन, (विसर्ग संधि)
- सर्पश्च= सर्पः + च, (विसर्ग संधि)
- परमापदाम्= परम + आपदाम्, (दीर्घ संधि)
- क्रियामविवेकः =क्रियाम् + अविवेकः(संयोग)
- स्वयमेव= स्वयम् + एव(संयोग)
प्रकृति-प्रत्ययः …..
- पालितम्=पाल् +क्त
- कृत्वा=कृ + क्त्वा
- व्यवस्थाप्य=वि + अव उपसर्ग + स्था धातु, णिच् ,ल्यप् प
- उपसर्पन्=उप + सर्प (सृप्) + शतृ
- मन्यमानः=मन् धातु + शानच्
- व्यापाद्य=वि + आ उपसर्ग+ पद् धातु (णिच् ) + ल्यप्
- दृष्टः=दृश् धातुः + क्त प्रत्ययः
- गृहीत्वा=ग्रह धातु + क्त्वा
- कृतवान्=कृ + क्तवतु
- उपावृत्तः=उप + आ उपसर्गः + वृत् धातु + क्त
- दृष्ट्वा=दृश् + क्त्वा
- व्यापादितवान्=वि + आ उपसर्ग + पद् + (णिच् ) + क्तवतु
- खादितः=खाद् + क्त
- अवधार्य=अव उपसर्गः + धृ + (णिच् ) + ल्यप्
- उपसृत्य=उप उपसर्ग + सृ + ल्यप्
- व्यापादितः=वि + आ उपसर्ग + पद् + (णिच् ) + क्त
- मृतम्=मृ + क्त ,
- निरीक्ष्य=निर् उपसर्ग + ईक्ष + ल्यप्
- मुषितम्=मुष् धातु + क्त प्रत्ययः
पद परिचय…
- रक्षायाम्=रक्षा शब्द, स्त्रीलिङ्ग, सप्तमी विभक्ति, एकवचन,
- अनेन=इदम् (सर्वनाम) शब्द, तृतीया विभक्ति, एकवचन पुल्लिङ्ग और नपुंसकलिङ्ग
- आत्मानम्=आत्मन् शब्द, पुंल्लिङ्ग, द्वितीया विभक्ति, एकवचन,
- आपदाम्=आपद् शब्द,स्त्रीलिङ्ग , षष्ठी विभक्ति, बहुवचन,
- विमृश्यकारिणम् =विमृश्यकारिन् शब्द, पुल्लिङ्ग,द्वितीया विभक्ति एकवचन
- संपदः=संपद्, शब्द, स्त्रीलिङ्ग ,प्रथमा विभक्ति, बहुवचन,
- अलुठत्=लुठ् धातु, एकवचन, लङ् लकार, प्रथमपुरुष,
- उच्यते=ब्रू (वच्) धातु, लट् लकार, प्रथमपुरुष, एकवचनम
- वृणते=वृ धातु, लट् लकार, प्रथमपुरुष, एकवचनम्, आत्मनेपद
- तिष्ठति=स्था धातु, लट् लकार, प्रथमपुरुष, एकवचनम्, परस्मैपद

पाठ आधारित अभ्यास कार्य..
1…निम्नलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) उज्जयिन्यां किं नाम विप्रः अवसत् ?
उत्तर.. माधवः
(ख) माधवः केन श्राद्धार्थ निमन्त्रितः ?
उत्तर… राज्ञा
(ग) अक्रियमाणस्य कर्तव्यस्य रसं कः पिबति ?
उत्तर.. कालः
(घ) ‘किं करोमि’ इति कः चिन्तयति ?
उत्तर.. ब्रह्मणः/विप्रः
(ङ) कृष्णसर्पः केन दृष्टः ?
उत्तर… नकुलेन
(च) नकुलं कः व्यापादितवान् ?
उत्तर… ब्राह्मणः/विप्रः
(छ) सम्पदः कं वृणते ?
उत्तर…विमृश्यकारिणम्
- अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत
- (क) ब्राह्मणः बालकस्य रक्षायै कम् उपायम् अचिन्तयत् ?
- (ख) ब्राह्मणेन अविचार्य किं कृतम् ?
- (ग) कालः कस्य रसं पिवति ?
- (घ) कीदृशः नकुलः ब्राह्मणस्य चरणयोः अलुठत् ?
- (ङ) नकुलेन कः व्यापादितः ?
- (च) परमापदां पदं किम् ?
- (ङ) सम्पदः कीदृश्यः भवन्ति ?
उत्तर…
- (क)” चिरकालपालितम् नकुलं बालरक्षायां व्यवस्थाप्य गच्छामि” ब्राह्मणः बालकस्य रक्षायै एतम् उपायम् अचिन्तयत्।
- (ख) ब्राह्मणेन अविचार्य उपकारकं नकुलं व्यापादितः।
- (ग) कालः आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः क्षिप्रम् अक्रियमाणस्य रसं पिवति।
- (घ)रक्त-विलिप्त-मुख-पादः नकुलः ब्राह्मणस्य चरणयोः अलुठत्।
- (ङ) नकुलेन , बाल समीपं उपसर्पन् कृष्णः सर्पः व्यापादितः।
- (च) अविवेकः परमापदां पदं।
- (ङ) सम्पदः गुणलुब्धाः भवन्ति।
3…अधोलिखितवाक्येषु स्थूलपदानि आश्रित्य प्रश्ननिर्माणं कुरुत –
- (क) माधवः उज्जयिन्याम् अवसत् ।
- (ख) ब्राह्मणी शिशोः रक्षार्थं ब्राह्मणं नियोज्य स्नातुं गता।
- (ग) ब्राह्मणः दारिद्र्यात् अचिन्तयत्।
- (घ) यदि कार्यं क्षिप्रं न क्रियते तदा कालः तस्य रसं पिबति।
- (ङ) स ब्राह्मणः नकुलं बालरक्षायाम् व्यवस्थापयत् ।
- (च) नकुलः समीपम् आगच्छन्तं कृष्णसर्पम् अमारयत् ।
- (छ) नकुलस्य मुखं पादाः च रक्तेन विलिप्ताः ।
उत्तर….
- (क) माधवः कुत्र अवसत्?
- (ख) ब्राह्मणी शिशोः रक्षार्थं कम् नियोज्य स्नातुं गता?
- (ग) ब्राह्मणः कस्मात् अचिन्तयत्?
- (घ) यदि कार्यं क्षिप्रं न क्रियते तदा कालः कस्य रसं पिबति।?
- (ङ) स ब्राह्मणः कम् बालरक्षायाम् व्यवस्थापयत्?
- (च) नकुलः समीपम् आगच्छन्तं कम् अमारयत्?
- (छ) नकुलस्य मुखं पादाः च केन विलिप्ताः?
4..अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत…
(क) ‘अस्ति उज्जयिन्यां माधवः नाम विप्रः ।’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम् ?
उत्तर… अस्ति
(ख) ‘किन्तु बालस्य अत्र रक्षकः नास्ति।’ अत्र किं कर्तृपदं वर्तते ?
उत्तर… रक्षकः
(ग) ‘ब्राह्मणं दृष्ट्वा नकुलः रक्तविलिप्तमुखपादः तस्य चरणयोः अलुठत्।’ अस्मिन् वाक्ये किं विशेष्यपदं प्रयुक्तम् ?
उत्तर..नकुलः
(घ) ‘अत्रान्तरे ब्राह्मणोऽपि श्राद्धं गृहीत्वा गृहम् उपावृत्तः ।’ अत्र ‘दत्त्वा’ इति पदस्य किं विलोमपदं प्रदत्तम् अस्ति ?
उत्तर… गृहीत्वा
(ङ) ‘बालकः सुस्थः सर्पश्च व्यापादितः तिष्ठति।’ अत्र ‘बालकः सुस्थः’ इत्यनयोः पदयोः किं विशेषणपदम् अस्ति ?
उत्तर… सुस्थः
(च) ‘यदि सत्वरं न गच्छामि’ इत्यत्र ‘शीघ्रम्’ इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर… सत्वरं
5…..घटनाक्रमानुसारं वाक्यानि पुस्तिकायां लिखत –
- (क) ब्राह्मणः नकुलं बालरक्षार्थ व्यवस्थाप्य गच्छति ।
- (ख) उज्जयिन्यां माधवो नाम विप्रः वसति ।
- (ग) ब्राह्मणः श्राद्धं गृहीत्वा प्रत्यागच्छति ।
- (घ) ब्राह्मणः श्राद्धार्थं राज्ञा निमन्त्रितः भवति ।
- (ङ) ब्राह्मणः श्राद्धार्थं राज्ञः प्रासादं गच्छति ।
- (च) नकुलः बालकस्य समीपम् आगच्छन्तं सर्पम् मारयति।
- (छ) ब्राह्मणः सुस्थं पुत्रं दृष्ट्वा विषादमनुभवति ।
- (ज) नकुलस्य मुखं रक्तविलिप्तं भवति ।
- (झ) ब्राह्मणः रक्तविलिप्तमुखं नकुलं दृष्ट्वा चिन्तयति- ‘नूनं खादितः मे पुत्रः अनेन नकुलेन?
- (ञ) सहसा क्रियां न विदधीत ।
उत्तरम् –
- (ख) उज्जयिन्यां माधवो नाम विप्रः वसति ।
- (घ) ब्राह्मणः श्राद्धार्थं राज्ञा निमन्त्रितः भवति ।
- (क) ब्राह्मणः नकुलं बालरक्षार्थ व्यवस्थाप्य गच्छति ।
- (ङ) ब्राह्मणः श्राद्धार्थं राज्ञः प्रासादं गच्छति ।
- (च) नकुलः बालकस्य समीपम् आगच्छन्तं सर्पम् मारयति।
- (ग) ब्राह्मणः श्राद्धं गृहीत्वा प्रत्यागच्छति ।
- (ज) नकुलस्य मुखं रक्तविलिप्तं भवति ।
- (झ) ब्राह्मणः रक्तविलिप्तमुखं नकुलं दृष्ट्वा चिन्तयति- ‘नूनं खादितः मे पुत्रः अनेन नकुलेन?
- (छ) ब्राह्मणः सुस्थं पुत्रं दृष्ट्वा विषादमनुभवति ।
- (ञ) सहसा क्रियां न विदधीत ।
6..अधोलिखितकथनयोः उचितभावार्थ () इति चिनेन प्रदर्शयत –
(अ) सहसा विदधीत न क्रियाम्-
- (i) कार्यं सर्वदा एव विचार्य कर्तव्यम् ।
- (ii)कार्यः यदा कदा एव विचार्य कर्तव्यम्।
- (iii) कानिचित् कार्याणि एव विचार्य कर्तव्यानि न तु सर्वाणि।
उत्तर..(i) कार्यं सर्वदा एव विचार्य कर्तव्यम् ।
(ब) क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्-
- (i) कालः कार्यस्य आनन्दं नाशयति ।
- (ii) कार्यस्य आनन्दः स्वयम् एव नश्यति ।
- (iii) कार्यस्य स्वादः न्यूनः भवति ।
उत्तर…(i) कालः कार्यस्य आनन्दं नाशयति ।
7…समुचितप्रतीपमेलनं कुरुत –
- (क) आदानम्………दूरम्
- (ख) समीपम्……अपसृत्य
- (ग) दारिद्र्यम्………अविवेकः
- (घ) विवेकः ……..प्रदानम्
- (ङ) उपसृत्य…….सम्पन्नता
उत्तर…
आदानम् | प्रदानम् |
समीपम् | दूरम् |
दारिद्र्यम् | सम्पन्नता |
विवेकः | अविवेकः |
उपसृत्य | अपसृत्य |
8….अत्र विशेषणानि दत्तानि । एतानि अधोलिखितविशेष्यैः सह योजयत –
विशेषणानि – चिरकालपालितः, पुत्रनिर्विशेषः, कृष्णः, रक्तविलिप्तमुखपादः, सुस्थः, व्यापादितः, उपकारकः, मृतः
नकुलः ……………बालकः ……………..सर्पः
नकुलः | बालकः | सर्पः |
चिरकालपालितः | सुस्थः | कृष्णः |
पुत्रनिर्विशेषः | मृतः | |
रक्तविलिप्तमुखपादः | व्यापादितः | |
उपकारकः |
विद्यया भान्ति सद्गुणाः चतुर्थः पाठः Class 9
Karmana Yati Samsiddhim Sanskrit Class 9
कवयामि वयामि यामि Manika Class 9
Sanskrit Class 9 न धर्मवृद्धेषु वयः समीक्षते
Tat Tvam Asi Sanskrit Class 9 तत् त्वं असि
तरवे नमोऽस्तुते Tarave Namostute
संस्कृत के अव्यय अर्थ और वाक्य